SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् २७ Jain Education International ततोऽन्यैः साग्रहं प्रोक्तावपि तौ सोदरी तदा । व्रतभङ्गभयान्त्रैवा भुञ्जातां सत्त्वशालिनी ।। २६ । । अन्ये त्वन्योन्यदत्तेन, मद्येन पिशितेन च । विषयुक्तेन भुक्तेन, मृत्वा दुर्गतिमैयरुः ।। २७ ।। ततस्तान्निधनं प्राप्ता निरिक्ष्य निखिलानपि । इत्यचिन्तयतां चित्ते, तावुभौ स्वीकृतव्रतौ ।। २८ ।। नूनं हालाहलालीढे, मद्यमांसे बभूवतुः । एतैषामन्यथा कस्मा- दकस्मान्मरणं भवेत् ।। २९ । । आवयोर्नाभविष्यन्चे-निशाभुक्तिव्रतं हितम् । आवामप्येतदाहारा त्तत्प्राप्स्यावो दशामिमाम् ।। ३० ।। महोपकारिणो नूनं ज्ञानिनस्ते महर्षयः । प्रत्याख्यानमिदं दत्त-मावयोर्यैः शुभावहम् ।। ३१ ।। ध्यायन्ताविति धेन्वादि, तावादाय गृहं गतौ । अभूतां सुखिनो धर्म-कर्मणाऽत्र परत्र च ।। ३२ ।। इत्थं रसज्ञादमनादपीमा-वविन्दतां दस्युपती सुखानि । सर्वात्मना स्वं दमयंस्तु सौख्यं यदश्रुते किं किल तत्र वाच्यम् ।। ३३ ।। इत्यात्मदमने भ्रातृद्वयकथा, तदेवमात्मा दान्तः सुखी भवतीति सूत्रार्थः ।। १५ ।। किं पुनर्विचिन्त्यात्मानं दमयेदित्याहवर मे अप्पा दंतो, संजमेण तवेण य । माहं परेहिं दम्मंतो, बंधणेहिं वहेहि अ ।। १६ ।। STDTLOOT For Personal & Private Use Only व्याख्या - वरं प्रधानं, मे मया आत्मा जीवस्तदाधारभूतः कायो वा, दान्तो दमं ग्राहितोऽसंयमचेष्टातो व्यावर्तितः, केनेत्याह संयमेन ॥ २७ చాలా టైట్ विनयनाम ॥७॥ प्रथम मध्ययनम् www.jainlibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy