________________
उत्तराध्ययन
सूत्रम्
६६१
पक्खिए मोत्तुं, वायणाकालमेव य । सेसकालमयंतीओ, नेआओ अकालचारीओ ।। १ ।। त्ति" ब्रह्मचर्यस्य रक्षार्थं रक्षणार्थं आलयं तमिति शेषः, ब्रह्मचर्यसमाधि तुः पूर्ती, निषेवते । । १ ॥
|| स्थानानिनाम
मणपल्हायजणणी, कामरागविवड्डणी । बंभचेररओ भिक्खू, थीकहं तु विवज्जए || २ ||
व्याख्या - मनः प्रह्लादजननीं कामरागस्य विषयाभिष्वङ्गस्य विवर्द्धनीं कामरागविवर्द्धनीं ब्रह्मचर्यरतो भिक्षुः स्त्रीकथां तु विवर्जयेत् ।। २ ।। समं च संथवं थीहिं, संकहं च अभिक्खणं । बंभचेररओ भिक्खू, निचसो परिवज्जए ।।३।।
व्याख्या - सम च सह संस्तवं परिचयं स्त्रीभिर्निषद्याप्रस्तावादेकासनभोगेनेति गम्यते, सङ्कथां च ताभिरेव सह सततभाषणरूपां, अभीक्ष्णं वारंवारं 'निचसोत्ति' नित्यं शेषं स्पष्टम् ।।३॥
अंगपचंगसंठाणं, चारुल्लविअपेहिअं । बंभचेररओ थीणं, चक्खुगिज्झं विवज्जए || ४ ||
व्याख्या - अङ्गानां शिरः प्रभृतीनां प्रत्यङ्गानां च कुचकक्षादीनां संस्थानमाकारं, चारु पेशलं उल्लपितं मन्मनभाषितादि, प्रेक्षितं कटाक्षादि, ब्रह्मचर्यरतः स्त्रीणां सम्बन्धि चक्षुर्ग्राह्यं सद्विवर्जयेत् । अयं भावः - चक्षुषि सति रूपग्रहणमवश्यम्भावि परं तद्दर्शने तत्त्याग एव
Jain Education International
DDDDDDDDDDD.
For Personal & Private Use Only
षोडश
मध्ययनम्
६६१
www.jainelibrary.org