________________
उत्तराध्ययन
सूत्रम् ६४४
मध्ययनम्
ler
राओवरयं चरेज लाढे, विरए वेअवियाऽऽयरक्खिए ।
सभिक्षुनाम पण्णे अभिभूय सव्वदंसी, जे कम्हिवि न मुच्छिए स भिक्खू ।। २।।
पञ्चदशव्याख्या – 'राओवरयंति' उपरतरागं यथा स्यात्तथा चरेविहरेत् ‘लाटेत्ति' सदनुष्ठानतया प्रधानः, विरतोऽसंयमानिवृत्तो, वेदविदागमवेदी Mon 'आयरक्खिएत्ति' आत्मा रक्षितो दुर्गतेर्येन स आत्मरक्षितः, यद्वा आयाः सम्यक्त्वादिलाभा रक्षिता येन स आयरक्षितः, प्राज्ञो ॥ हेयोपादेयबुद्धिमान, अभिभूय परीषहोपसर्गानिति शेषः, सर्व प्राणिवर्गमात्मवत्पश्यतीति सर्वदर्शी, यः कस्मिंश्चित्सचित्तादिवस्तुनि न मूर्छितः स भिक्षुरिति सूत्रार्थः ।।२।। तथा -
अक्कोसवहं विइत्तु धीरे, मुणी चरे लाढे निञ्चमायगुत्ते । lel
अब्बग्गमणे असंपहिढे, जो कसिणं अहिआसए स भिक्खू ।।३।। व्याख्या - आक्रोशश्च वधश्च आक्रोशवधं तद्विदित्वा स्वकृतकर्मफलमेतदिति मत्वा धीरोऽक्षोभ्यः मुनिश्चरेदप्रतिबद्धविहारेण 'लाढेत्ति' ॥ प्राग्वत्, नित्यं सदा आत्मा रक्षितोऽसंयमस्थानेभ्यो येन स तथा, अव्यग्रमसमञ्जसचिन्तोपरतं मनो यस्य स तथा, असम्प्रहृष्टः । is आक्रोशदानादिषु न सम्प्रहर्षवान्, अमून्याक्रोशवाक्यानि कर्मक्षयहेतुतया ममानन्दाय जायन्ते परमयं वराको मुनीनाशात्य कथं । isi भविष्यतीत्यादिकमप्यजल्पन्नित्यर्थः, यः कृत्स्नं समस्तमाक्रोशवधमध्यास्ते सहते स भिक्षुरिति सूत्रार्थः ।।३।। किञ्च -
Isl
Ioli
||sil fell
lan Jain Education international
For Personal & Private Use Only
www.jainelibrary.org