________________
VOM
Isl
ell ||sl Mell सभिक्षुनाम llol
पञ्चदशमध्ययनम्
lll
llen
||७||
उत्तराध्ययन
।। अथ सभिक्षुनामपञ्चदशमध्ययनम् ।। सूत्रम् ६४३
।। अर्हम् ।। व्याख्यातं चतुर्दशमध्ययनं, सम्प्रति सभिक्षुनामकं पञ्चदशमारभ्यते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने निर्निदानतागुण उक्तः, Moc स च मुख्यतया भिक्षोरेवेति तद्गुणा इहोच्यन्ते, इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रम्
मोणं चरिस्सामि समेञ्च धम्मं, सहिए उज्जुकडे निआणच्छिन्ने । lish isi
संथवं जहिज्ज अकामकामे, अण्णाएसी परिव्वए स भिक्खू ।।१।। व्याख्या - मौनं श्रामण्यं चरिष्यामीत्यभिप्रायेणेति शेषः, समेत्य प्राप्य धर्मं श्रुतचारित्रभेदं, सहितो युक्तोऽन्यसाधुभिरिति गम्यं, न त्वेकाकी, Is एकाकिभावस्यागमे निषिद्धत्वात्, यदुक्तं – “इक्कस्स कओ धम्मो, सच्छंदगई मइप्पयारस्स । किं वा करेइ इक्को, परिहरउ कहमकजं वा ? ।।१।।"
तथा ऋजुकृतोऽशठानुष्ठान:, 'निआणछिन्नेत्ति' छिन्नमपनीतं निदानं विषयाद्यभिष्वङ्गरूपं येन स छिन्ननिदानः, व्यत्ययस्त्विहोत्तरत्र च प्राकृतत्वात्, 6 संस्तवं मात्रादिभिः परिचयं जह्यात्त्यजेत्, अकामकाम: न कामाभिलाषी, अज्ञातस्तपस्वितादिगुणैरेषयते ग्रासादिकमित्येवंशीलोऽज्ञातैषी, ॥ परिव्रजेदनियतविहारेण विहरेत् ‘स भिक्खुत्ति' य एवंविधः स भिक्षुरनेन सिंहतया निष्क्रम्य सिंहतयैव विहरणं भिक्षुतानिमित्तमिति सूचितमिति सूत्रार्थः ।।१।। सिंहतया विहारमेव विशेषत आह -
ical
६४३
Wel
161
Isll Mall Isll
all Retrimtiainelibrary.org
Jain Education into
Ish
For Personal & Private Use Only