________________
उत्तराध्ययन
सूत्रम्
६४०
llell
Hell
बबबब
व्याख्या - त्यक्त्वा विपुलं राज्यं कामभोगांश्च दुस्त्यजान् निर्विषयो विषयरहितावत एव निरामिषौ अभिष्वङ्गहेतुरहितो, निःस्नेही निः प्रतिबन्ध, निःपरिग्रहौ मूर्च्छारहितौ ।। ४९ ।।
गिद्धोवमे उनचा णं, कामे संसारवडणे । उरगो सुवण्णपासे वा, संकमाणो तणुं चरे ।। ४७ ।।
व्याख्या - गृध्रोपमान् सामिषगृध्रसमान्, तुः पूर्ती, ज्ञात्वा णं वाक्यालङ्कारे, कामयन्ते शब्दादीन् वाञ्छन्तीति कामा विषयाभिलाषिणस्तान् ॥ संसारवर्द्धनान्, 'उरगो सुवण्णपासेवत्ति' उरग इव सुवर्णपार्श्वे गरुडाभ्यर्णे शङ्कमानो भयत्रस्तस्तनु स्तोकं यतनयेत्यर्थः चरेः क्रियासु प्रवर्त्तेथाः, यथा गरुडोपमैर्विषयैर्न बाध्यसे तथा यतस्वेति भावः ।। ४७ ।। ततश्च -
नागोव्व बंधणं छित्ता, अप्पणो वसई वए । एअं पत्थं महारायं, इसुआरेत्ति मे सुयं ।। ४८ । ।
व्याख्या - नाग इव बन्धनं छित्त्वा आत्मनो वसतिं व्रज, अयं भाव: यथा हस्ती बन्धनवस्त्रां छित्त्वात्मनो वसतिं विन्ध्याटवीं व्रजत्येवं त्वमपि कर्मबन्धनं छित्वा आत्मनः शुद्धजीवस्य वसतिमाश्रयं मुक्तिं व्रजेः, अनेन दीक्षायाः फलमुक्तं, एवमुपदिश्योपसंहरति । एतद्यन्मयोक्तं पथ्यं हितं महाराज ! इषुकार ! इत्येतन्मया श्रुतं साधुभ्यो न तु स्वधियैवोच्यत इति सूत्रद्वादशकार्थः ।। ४८ । । एवं च तद्द्विरा प्रतिबुद्धो नृपस्ततो यत्तौ ॥॥॥ द्वावपि चक्रतुस्तदाह -
इत्ताविलं रज्यं, कामभोगे अ दुचए । निव्विसया निरामिसा, निन्नेहा निष्परिग्गहा ।। ४९ ।।
Jain Education International
తారలై లోక్
For Personal & Private Use Only
इषुकारीयनाम ॥ चतुर्दश॥६॥ मध्ययनम्
६४०
www.jainelibrary.org