SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६३९ इव पक्षिण इव कामक्रमाः स्वेच्छाचारिणः, यथा हि द्विजा यत्र यत्र रोचते तत्र तत्र मोदमाना भ्राम्यन्ति, एवं मुनयोप्यभिष्वङ्गाभावाद्यत्र यत्र ॥ इषुकारीयनाम संयमनिर्वाहस्तत्र तत्र यान्तीति भावः ।। ४४ ।। पुनरर्थादिषु रागं निराकर्तुमाह - ॥ चतुर्दश मध्ययनम् इमे अ बद्धा फंदंति, मम हत्थज्जमागया । वयं च सत्ता कामेसु, भविस्सामो जहा इमे ।। ४५ ।। व्याख्या - इमे प्रत्यक्षाः शब्दादयो विषयाश्चोप्यर्थे भिन्नक्रमश्च ततो बद्धा अपि नियन्त्रिता अपि बहूपाये रक्षिता अपीत्यर्थः, स्पन्दन्ते इव स्पन्दन्ते अस्थितिधर्मतया कम्पन्ते, ये कीदृशा इत्याह-मम उपलक्षणत्वात्तव च हस्तं हे आर्य ! आगताः स्ववशा इत्यर्थः, वयं च वयं पुनः ॥ सक्ताः कामेष्वेवंविधेष्वपि तदहो मोहविलसितमिति भावः । यतः एवं ततो भविष्यामो यथेमे पुरोहितादयः, अयं भाव- यथामीभिश्चञ्चलत्वं वीक्ष्यामी त्यक्तास्तथा वयमपि त्यक्षामः इति ।। ४५ ।। नन्वस्थिरा अपि कामाः सुखहेतवस्तत्किं त्यज्यन्ते ? इत्याह - सामिसं कुलं दिस्स, बज्झमाणं निरामिसं । आमिसं सव्वमुज्झित्ता, विहरिस्सामो निरामिसा ।। ४६।। व्याख्या - सामिषं पिशितरूपामिषयुक्तं कुललं गृध्रं शकुनिकां वा दृष्ट्वा बाध्यमानं पीड्यमानं विहगान्तरैरिति गम्यते, निरामिषं च तमेव निर्भयं वीक्ष्येति शेषः, आमिषं धनधान्यादिसङ्गहेतुं सर्वमुज्झित्वा विहरिष्याम्यप्रतिबद्धविहारेण निरामिषा निःसङ्गा ।। ४६ ।। ॥ उक्तानुवादेनोपदेष्टुमाह - Bell Bell G|| lol Jain Education International For Personal & Private Use Only এই ব। এ এই ই ||all ६३९ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy