________________
उत्तराध्ययन
सूत्रम्
६३८
एवमहमपि जरामरणाद्युपद्रवविद्वते भवपञ्जरे । अत एव 'संताणछिन्नत्ति' छिन्नसन्ताना प्रक्रमाद्विनाशितस्नेहसन्ततिः चरिष्यामि मौनं मुनिभावं, || अकिञ्चना हिरण्यादिकिञ्चनरहिता, ऋजु मायारहितं कृतमनुष्ठानं यस्याः सा ऋजुकृता, निष्क्रान्ता आमिषाद्विषयादेर्निरामिषा, परिग्रहारम्भावेव जीवदूषणाद्दोषताभ्यां निवृत्ता परिग्रहारम्भदोषनिवृत्ता, सूत्रे चैवमुपन्यास: प्राकृतत्वात् ।। ४१ ।। तथा -
दवग्गणा जहारणे, उज्झमाणेसु जंतुसु । अन्ने सत्ता पमोअंति, रागद्दोसवसंगया ।। ४२ ।।
व्याख्या -- दवाग्निना यथाऽरण्ये दह्यमानेषु जन्तुषु अन्ये सत्वा अविवेकिनः प्रमोदन्ते रागद्वेषवशङ्गताः ।। ४२ ।। एवमेव वयं मूढा, कामभोगेसु मुच्छिआ । डज्झमाणं न बुज्झामो, रागदोसग्गिणा जगं ।। ४३ ।।
व्याख्या - एवमेव वयं मूढा मोहवशगाः कामभोगेषु मूर्च्छिताः दह्यमानं न बुध्यामहे रागद्वेषाग्निना जगत् प्राणिसमूहं, यो हि सविवेको रागादिरहितश्च स्यात् स दावाग्निना दह्यमानानन्यसत्वान् दृष्ट्वा स्वरक्षणोपायपर एव स्यान्न तु मोदते, यस्तु मूर्खो रागादिमांश्च स आयतिमचिन्तयन्मोदते, ततो वयमपि भोगात्यागादज्ञानिन एवेति भावः ।। ४३ । । ये त्वेवंविधा न स्युस्ते किं कुर्युरित्याह -
-
भोगे 'भुझा वमित्ता य, लहुभूयविहारिणो । आमोदमाणा गच्छंति, दिया कामकमा इव ।। ४४ ।।
व्याख्या - भोगान् भुक्त्वा पुनरुत्तरकालं वान्त्वा च लघुर्वायुस्तद्भूताः सन्तो विहरन्तीत्येवं शीला लघुभूतविहारिणोऽप्रतिबद्धविहारिण इत्यर्थः, आमोदमानाः प्रमोदं यान्तस्तथाविधानुष्ठानेनेति शेषः, गच्छन्ति विवक्षितस्थानमिति शेषः, क इव ? भिन्नक्रमस्य इवशब्दस्येह योगात् द्विजा
Jain Education Intentional
For Personal & Private Use Only
ATTTTTTT
1161
॥६॥
इषुकारीयनाम चतुर्दश
मध्ययनम्
६३८
www.jainelibrary.org