SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् चतर्दश ६३६ ॥ गम्यत्वात् हंसाच पलिंतित्ति' परियन्ति समन्ताद्गच्छन्ति, एवं पुत्रौ च पतिश्च मज्झंति' मम सम्बन्धिनो ये ततजालोपमं विषयाभिष्वङ्गं हित्वा नभ:कल्पे ॥ इषुकारीयनाम निरुपलेपे संयमाध्वनि तानि तानि संयमस्थानान्यतिक्रामन्तो यान्ति तानहं कथं नानुगमिष्याम्येका सतीति सूत्रार्थः ।। ३६ ।। इत्थं चतुर्णामपि का व्रतप्रतिपत्तौ यदभूत्तद्द्वादशभिः सूत्रैराह - | मध्ययनम् पुरोहितं ससुअं सदारं, सुचाऽभिणिक्खम्म पहाय भोए । कुटुंबसारं विउलुत्तमं तं, रायं अभिक्खं समुवाय देवी ।।३७।। व्याख्या - पुरोहितं तं ससुतं सदारं श्रुत्वाऽभिनिष्क्रम्य गृहान्निर्गत्य प्रहाय भोगान् प्रव्रजितमिति शेषः, कुटुम्बसारं धनधान्यादि, विपुलं च तदुत्तमं च विपुलोत्तमं तत्पुरोहितत्यक्तं गृह्णन्तमिति शेषः, 'रायंति' राजानं, अभीक्षणं पुनः पुनः समुवाच सम्यगुक्तवती देवी कमलावती || नाम्नी ।। ३७।। किं तदित्याह - वंतासी पुरिसो रायं, न सो होइ पसंसिओ । माहणेण परिञ्चत्तं, धणं आदाउमिच्छसि ।।३८।। व्याख्या - वान्ताशी वान्तभोजी पुरुषो य इति शेषः, हे राजन् ! न स भवति प्रशंसितो धीधनैरिति शेषः, कथमहं वान्ताशीत्याह - यतो MS ब्राह्मणेन परित्यक्तं धनमादातुमिच्छसि ! त्यक्तधनं हि गृहीतोज्झितत्वेन वान्तकल्पं, तञ्चादित्सुर्भवानपि वान्ताश्येव, न MIM चैतद्भवादृशामुचितमित्याशयः ।। ३८।। किञ्च - ६३६ lloll Iell lisil Isil For Personal Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy