________________
उत्तराध्ययनसूत्रम्
६३१
जा जा वचइ रयणी, न सा पडिनिअत्तइ । धम्मं च कुणमाणस्स, सहला जंति राइओ ।। २५ ।।
व्याख्या - प्राग्वन्नवरं 'धम्मं चत्ति' धर्मं पुनः कुर्वाणस्य सफला धर्मफलत्वाज्जन्मनो न च व्रतं विना धर्म इत्यतस्तदेव प्रतिपत्स्यावहे इति सूत्रद्वयार्थः ।। २५।। अथ तद्वचनेन प्रतिबुद्धो भृगुराह -
एगओ संवसित्ताणं, दुहओ सम्मत्तसंजुआ । पच्छा जाया गमिस्सामो, भिक्खमाणा कुले कुले ।। २६ ।।
व्याख्या - एकत: एकस्मिन् स्थाने समुष्य सहैव उषित्वा 'दुहओत्ति' द्वयं च द्वये आवां युवां च सम्यक्त्वसंयुता उपलक्षणत्वाद्देशविरत्या च संयुताः पश्चाद्यौवनोत्तरकालं हे जाती । गमिष्यामो वयं प्रव्रज्य मासकल्पादिक्रमेणेति शेषः, भिक्षमाणाः कुले कुले गृहे गृहे अज्ञातोञ्छवृत्त्येति सूत्रार्थः ।। २६ ।। कुमारावाहतुः -
जस्सत्थि मञ्जुणा सक्खं, जस्स वऽत्थि पलायणं ।
जो जान मरिस्सामि, सो हु कंक्खे सुएसिआ ।। २७।।
व्याख्या - यस्यास्ति मृत्युना सह सख्यं मैत्री, यस्य वास्ति पलायनं नशनं मृत्योरिति प्रक्रमः, तथा यो जानाति यथाहं न मरिष्यामि, 'सो हुत्ति' स एव काङ्क्षति वाञ्छति, श्व आगामिदिने स्यादिदं कार्यमिति शेषः ।। २७ ।। ततश्च -
Jain Education International
For Personal & Private Use Only
ర లేదా చాచాచాల్
OTTOO
इषुकारीयनाम
चतुर्दश
मध्ययनम्
६३१
www.jainelibrary.org