________________
उत्तराध्ययन
सूत्रम्
६३०
TO GAADDIT
केण अब्भाहओ लोओ, केण वा परिवारिओ । का वा अमोहा वुत्ता, जाया चिंतापरो हुमि ।। २२ ।।
व्याख्या - केन व्याधकल्पेनाभ्याहतो लोकः ? केन वा वागुरारूपेण परिवारितः ? का वा अमोघा अमोघप्रहरणोपमा उक्ताः ? हे जातौ ! चिन्तापर: 'हुमित्ति' भवामि, ततो ममावेद्यतामयमर्थ इति सूत्रार्थः ।। २२ ।। तावाहतुः -
मनुणब्भाहओ लोओ, जराए परिवारिओ । अमोहा रयणीवुत्ता, एवं ताय विआणह ।। २३ ।।
व्याख्या - मृत्युनाभ्याहतो लोकस्तस्य सर्वत्राप्रतिहतप्रसरत्वात्, जरया परिवारितस्तस्या एव मरणाभिघातयोग्यतापादने प्रवणत्वात्, अमोघा रजन्य उक्ताः दिनाविनाभावित्वात्तासां दिनाश्च तत्पतने ह्यवश्यम्भावी जनाभिघातः, एवं तात ! विजानीतेति सूत्रार्थः ।। २३ ।। किञ्च
116.11
Jain Education International
-
जा जा व रयणी, न सा पडिनिअत्तइ । अहम्मं कुणमाणस्स अहला जंति राइओ ।। २४ ।।
व्याख्या - या या व्रजति रजनी उपलक्षणत्वाद्दिनं च न सा प्रतिनिवर्त्तते पुनरागच्छति, ताश्चाधर्मं कुर्वतो जन्तोरिति शेषः, अफला यान्ति रात्रयः, अधर्मनिबन्धनं गार्ह्यस्थमिति तत्त्याग एव श्रेयान् ।। २४ ।। तथा -
For Personal & Private Use Only
| इषुकारीयनाम चतुर्दश
मध्ययनम्
||६||
६३०
www.jainelibrary.org