SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ ll उत्तराध्ययन सूत्रम् ६३२ Isil अज्ज़ेव धम्म पडिवजयामो, जहिं पवण्णा न पुणब्भवामो । ॥ इषुकारीयनाम अणागयं नेव य अस्थि किंचि, सद्धा खमं णे विणइत्तु रागं ।।२८।। is चतुर्दश मध्ययनम् ब्याख्या - अद्यैव धर्म प्रतिपद्यामहे 'जहिंति' आर्षत्वाद्यं धर्म प्रपन्ना आश्रिता न पुनः 'भवामोत्ति' भविष्यामः, न पुनर्जन्मजरामरणाद्यनुभविष्यामस्तदभावहेतुत्वाद्धर्मस्य । किञ्च अनागतमप्राप्तं नेव नास्ति किञ्चित्सुन्दरमपि वस्तु विषयसोख्यादि, ॥ सर्वभावानामनन्तशः प्राप्तत्वात्, अत: श्रद्धा अभिलाषः, क्षमं युक्तो धर्मानुष्ठानं कर्तुमिति शेषः, 'णेत्ति' नोऽस्माकं 'विणइत्तुत्ति' व्यपनीय रागं fell IS स्वजनाभिष्वङ्गलक्षणमिति सूत्रद्वयार्थः ।। २८ ।। इदञ्चाकर्ण्य जातव्रताशयो भृगुाह्मणी धर्मविघ्नकरी मत्वेदमाह - पहीणपुत्तस्स हु नत्थि वासो, वासिट्ठि भिक्खायरिआइ कालो । साहाहिं रुक्खो लहई समाहिं, छिन्नाहिं साहाहिं तमेव खाणुं ।।२९।। ____ व्याख्या - 'पहीणपुत्तस्सत्ति' पुत्राभ्यां प्रहीणस्त्यक्तः पुत्रप्रहीणस्तस्य प्राकृतत्वात् पूर्वापरनिपातः, हुः पूरणे नास्ति वासोऽवस्थानं मम गृह * इति शेषः, हेवाशिष्ठि ! वशिष्ठगोत्रोद्भवे ! भिक्षाचर्याया व्रतस्य काल: प्रस्तावो वर्त्तते इति गम्यं । किमित्येवमत आह-शाखाभिर्वृक्षो लभते समाधि - स्वास्थ्य, छिनाभिः शाखाभिस्तमेव वृक्षं स्थाणु जनो वदतीति शेषः, यथा हि शाखा द्रुमस्य शोभा संरक्षणादिना समाधिहेतव एवं ममाप्येतौ सुतौ ॥ तद्रहितश्चाहमपि स्थाणुकल्प एवेति भावः ।। २९ । । किञ्च - Isll llll Illl lal in Education International For Personal & Private Use Only ___www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy