________________
उत्तराध्ययन
सूत्रम्
६२७
1161
धणं पभूअं सह इत्थिआहिं, सयणा तहा कामगुणा पगामा । तवं कए तप्पति जस्स लोओ, तं सव्वसाहीणमिहेव तुब्भं ।। १६ ।।
व्याख्या - धनं प्रभूतं सहस्त्रीभिः, स्वजनाः पितृपितृव्यादयः, तथा कामगुणाः शब्दादयः प्रकामा अतिशायिनो वर्त्तन्त इति गम्यं तपः कष्टानुष्ठानं कृते निमित्तं तप्यतेऽनुतिष्ठति यस्य धनादेर्लोकः तत्सर्वं स्वाधीनमिहैवास्मिन्नेव गृहे 'तुब्भंति' युवयोरिति सूत्रार्थः ।। १६ । । तावाहतुः - धणेण किं धम्मधुराहिगारे, सयणेण वा कामगुणेहिं चेव ।
समणा भविस्सामु गुणोहधारी, बहिंविहारा अभिगम्म भिक्खं ।। १७ ।।
व्याख्या - धनेन किं ? न किञ्चिदित्यर्थः, धर्म एव सात्विकधुरन्धरैरुह्यमानतया धूरिव धर्मधुरा तदधिकारे तत्प्रस्तावे स्वजनेन वा कामगुणैश्चैव ततः श्रमणौ भविष्यावो गुणौघधारिणो क्षमादिगुणसमूहधारको बहिर्ग्रामादिभ्यो विहारो ययोस्तौ बहिर्विहारी अप्रतिबद्धविहारावित्यर्थः, अभिगम्याश्रित्य भिक्षामिति सूत्रार्थः ।। १७ ।। आत्मास्तित्वमूलत्वाद्धर्मानुष्ठानस्य तन्निराकर्तुं भृगुराह -
जहा य अग्गी अरणी असंतो, खीरे घयं तिल्लमहा तिलेसु । एमेव जाया सरिरंमि सत्ता, संमुच्छई नासइ नावचिट्ठे ।। १८ ।।
व्याख्या - यथैव चकारस्यैवकारार्थत्वात् अग्निः 'अरणित्ति' अरणितोऽग्निर्मन्थनकाष्ठादसन् अविद्यमान एव सम्मूर्च्छति, तथा क्षीरे घृतं,
Jain Education International
For Personal & Private Use Only
||| Ble ||
इषुकायनाम चतुर्दशमध्ययनम्
६२७
www.jainlibrary.org