SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ६२६ ॥७॥ व्याख्या -- क्षणमात्रसौख्या बहुकालं दुःखं नरकादिविषयं येभ्यस्ते बहुकालदुःखाः, अनिकामसौख्या अप्रकृष्टसुखाः, संसारमोक्षस्य विपक्षभूताः, खानिराकरोऽनर्थानां तुरेवकारार्थी भिन्नक्रमश्च ततः खानिरेव कामभोगाः ।। १३ ।। अनर्थखनित्वमेव स्पष्टयितुमाह - परिव्वयंते अनि अत्तकामे, अहो अ राओ परितप्यमाणे । अप्पत्ते धणमेमाणे, पप्पोति मनुं पुरिसे जरं च ।। १४ ।। व्याख्या - परिव्रजन् विषयसुखलाभार्थमितस्ततो भ्राम्यन् अनिवृत्तकामोऽनुपरताभिलाषः सन् 'अहो अ राओत्ति' आर्षत्वाचस्य च भिन्नक्रमत्वादह्नि रात्रौ च परितप्यमानस्तत्प्राप्तौ समन्ताचिन्ताग्निना दह्यमानः अन्ये स्वजनास्तदर्थं प्रमत्तस्तत्कृत्यासक्तचेता अन्यप्रमत्तो धनं एषयन् विविधोपायैर्गवेषयमाणः, 'पप्पोतित्ति' प्राप्नोति मृत्युं पुरुषो जरां च ।। १४ । । तथा - इमं च मे अत्थि इमं च नत्थि, इमं च मे किमिमं अकिचं । तं एवमेवं लालप्पमाणं, हरा हरंतित्ति कहं पमाओ ? ।। १५ ।। व्याख्या - इमं च मे अस्ति धान्यादि, इदं च नास्ति रूप्यादि, इदं च मे कृत्यं गृहवरण्डिकादि, इदमकृत्यं, प्रारब्धमपि वाणिज्यादि न ॥ कर्त्तुमुचितं तं पुरुषं एवमेव वृथैव लालप्यमानं अत्यर्थं वदन्तं हरन्त्यायुरिति हराः, दिनरजन्यादयो हरन्ति भवान्तरं नयन्ति इत्यतो हेतोः कथं प्रमादो धर्मे कर्त्तुं युक्त इति सूत्रषट्कार्थः ।। १५ ।। अथ तौ धनादिना लोभयितुं पुरोधाः प्राह - Jain Education International For Personal & Private Use Only इषुकारीयनाम ॥ चतुर्दश ||७|| मध्ययनम् ६२६ www.janelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy