________________
Mail liall
उत्तराध्ययन
सूत्रम् ६१६
llel
llell मध्ययनम llell
Nell
llsll
इत्थं प्रवर्द्धमाना-ऽशुभपरिणामो दिनं दिनं प्रति सः । अतिगमयति स्म षोडश, वर्षाण्यविरतविषयतर्षः ।। ४१०।।
M चित्रसम्भूतीयसर्वायुषाथ नृपतिः शरदां शतानि, सप्तातिवाह्य विषयामिषलोलुपात्मा । उत्कृष्टजीवितमुपायं तमस्तमायां, रौद्राशयादजनि नैरयिकः ॥ क्षमायाम् ।। ४११।।
nel त्रयोदशइत्युक्तो ब्रह्मदत्तकथावशिष्टांशः, सम्प्रति प्रसङ्गतश्चित्रवक्तव्यतामाह -
चित्तोवि कामेहिं विरक्तकामो, उदत्तचारित्ततवो महेसी ।
अणुत्तरं संजमपालइत्ता, अणुत्तरं सिद्धिगई गयत्ति बेमि ।। ३५।। व्याख्या - चित्रोपि चित्रः पुनः कामेभ्यो विरक्तकामो निवृत्ताभिलाष: उदात्तं प्रधानं चारित्रं सर्वविरतिरूपं तपश्च द्वादशविधं यस्य स तथा, l 6 महर्षिः अनुत्तरं संयम सप्तदशभेदं पालयित्वा अनुत्तरां सर्वलोकाकाशोपरिवर्तिनीं सिद्धिं गतिं गतः प्राप्त इति सूत्रार्थः ।।३५ ।। इति ब्रवीमीति | का प्राग्वत् ।।१३।।
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रयोदशमध्ययनं सम्पूर्णम् ।।१३।।
।। इति त्रयोदशमध्ययनं सम्पूर्णम् ।।
Ill
६१६
||61
min Education International
For Personal & Private Use Only
www.jainelibrary.org