SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् Wall Mell Moll ii चित्रसम्भूतीय नाम त्रयोदशमध्ययनम् llel Poll lol Poll lisil li6ll अनपेक्षितनिजजननी-जामिजनीव्यतिकरस्ततो विप्रः । ससुतोपि प्रावर्त्तत, रते सुरामत्त इव विकल: ! ।।३९६ ।। प्रातस्तु लजया स, द्विजो गृहजनश्च तस्य नान्योन्यम् । दर्शयितुमास्यमशकन्, मशकपटलमलिनमवसादात् ।। ३९७।। अनिमित्तारातिर्मा, सकुटुम्बमहीलयन्महीशोऽसौ । इति चिन्तयन्नमर्षा-नगरानिरगात्ततो विप्रः ।।३९८।। तेन भ्रमताथ बहिः, पशुपालोऽदर्शि दर्शिताश्चर्यः । कर्करिकाभिः पिप्पल-दलपटलं छिद्रयन् दूरात् ।।३९९।। मत्कार्यं कर्तुमसौ, क्षम इति निश्चित्य वाडव: स ततः । इत्यूचे तं सन्मान-दानवचनैर्वशीकृत्य ।। ४००।। राजपथे यो द्विरदे, स्थितः सितछत्रचामरो व्रजति । प्रक्षिप्य गोलिके त्वं, तस्य दृशौ स्फोटयेः क्षिप्रम् ।। ४०१।। । तत्प्रतिपद्य जडत्वात्, स्थित्वा कुड्यान्तरे दृशौ नृपतेः । सह मुक्तगोलिकाभ्यां, सोपि समं स्फोटयामास ।। ४०२।। पशुवत्पशुपाल: सोथ, हन्यमानोङ्गरक्षकैद्धृत्वा । राज्ञेऽपकारिणं तं, द्विजमाख्यत्कुमतिदानरिपुम् ।। ४०३।। तदवेत्य नृपः कुपित-स्तं विप्रं पुत्रमित्रबन्धुयुतम् । व्यापादितवान् सद्यः, कोपो महतां हि नो विफलः ।। ४०४।। अपरान् पुरोहितादी-नपि निखिलानगरवासिनो विप्रान् । सोऽघातयद्रुषा क्व नु, रोषान्धानां विवेकमतिः ? ।। ४०५।। सचिवं चैवमवोचत, भृत्वा स्थालं द्विजन्मनां नयनैः । स्थापय मम पुरतोन्वह-महं यथा तानि मृनामि ! ।। ४०६।। राज्ञस्तस्य तमाशय-मवेत्य सचिवोपि शुभमति: क्रूरम् । आपूर्य श्लेष्मातक-फलैः पुरोऽस्थापयत्स्थालम् ।। ४०७।। तदथ स्थालं नृपतिः, पस्पर्श मुहुर्मुहुः स्वपाणिभ्याम् । रमणीरत्नस्पर्शा-दपि तत्स्पर्शेऽधिकं मुमुदे ।। ४०८।। द्विजनेत्रधिया तानि च, फलानि निर्दयममर्दयन्मुदितः । न च तत्स्थालं पुरतो-उपासारयदनिशमपलजः ।। ४०९।। llell llsil Isil llell ll6ll liloil llell Isl lel Jel lol Jain Education intellellinal For Personal & Private Use Only mewww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy