________________
उत्तराध्ययन
सूत्रम् ६१४
Mall
16
llell liall
leel
llsil
|Mell
6. सचित्ताचित्तादिवस्तुस्वीकारेषु च, मोघं निष्फलं यथा भवति तथा कृत एतावान् विप्रलापो विविधव्यर्थवचनविन्यासलक्षण, सम्प्रति तु गच्छामि I चित्रसम्भूतीय6 राजन् ! आमन्त्रितोसि धातूनामनेकार्थत्वात् पृष्टोसि गन्तुमिति शेषः । तव हि जीवितानित्यतादर्शनादिभिर्बहुभिः प्रकारैरनुशिष्यमाणस्यापि | नाम Man न मनागपि वैराग्यमभूदित्यविनेयत्वादुपेक्षैव वरीयसीति भाव इति सूत्रार्थः ।। ३३।। इत्थमुक्त्वा गते मुनौ ब्रह्मदत्तस्य यदभूत्तदाह -
त्रयोदशपंचालरायावि अ बंभदत्तो, साहुस्स तस्सा वयणं अकाउं ।
मध्ययनम् अणुत्तरे भुंजिअ कामभोगे, अणुत्तरे सो नरए पविट्ठो ।।३४।। व्याख्या – 'पंचालरायाविअत्ति' अपिः पुनरर्थे, चः पूरणे, ततः पाञ्चालराजः पुनर्ब्रह्मदत्तः साधोस्तस्य वचनमकृत्वा गुरुकर्मतया ॥ वज्रतन्दुलवदत्यन्तदुर्भेदत्वात्, अनुत्तरान् सर्वोत्तमान् भुक्त्वा कामभोगान्, अनुत्तरे सकलनरकज्येष्ठे अप्रतिष्ठाने इत्यर्थः, स ब्रह्मदत्तो नरके Mell प्रविष्टः । तदनेन निदानस्य नरकान्तं फलमुपदर्शितं भवतीति सूत्रार्थः ।।३४।। यथा चायं नरके प्रविष्टस्तथा तत्कथावशिष्टा इहोच्यते । । तथाहि -
तमबोध्यतमं हित्वा, सद्वैद्य इवापटुं निकटमरणम् । विजहार यतिभूमी-पतिरपि राज्यं चिरं बुभुजे ।। ३९२।। तं चान्यदा द्विजः पूर्व-संस्तुतोऽभ्येत्य कोप्यदोवादीत् । भुक्षे यदात्मना त-त्प्रदेहि मे भोजनं चक्रिन् ! ।। ३९३।। ऊचे नृपो मदन्नं, दुर्जरमन्यस्य सृजति चोन्मादम् । विप्रो जगाद धिक् त्वां, कदर्यमनप्रदानेपि ।। ३९४ ।। सकुटुम्बमथ नरेन्द्र-स्तं निजभोजनमभोजयत्कोपात् । अथ तस्याविरभूनिशि, मदनोन्मादो भृशं तस्मात् ।।३९५।।
Isll
16ll llell
Nell
llll
Isl ||७|| ||७|| III
||sil
६१४
lol
||sil ||Gl
llel
llell
||sil lllllww.jainelibrary.org
JainEducation intelianral
For Personal & Private Use Only