SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ Wel उत्तराध्ययन सूत्रम् ६०५ चित्रसम्भूतीय नाम त्रयोदश मध्ययनम सव्वं विलविअं, गीअं, सव्वं नट्टे विडंबिअं । सव्वे आहारणा भारा, सव्वे कामा दुहावहा ।।१६।। ||5 ol व्याख्या - सर्वं विलपितं विलपितकल्पं निरर्थकतया रुदितयोनितया च गीतं ! मत्तबालादिगीतवत्, सर्वं नृत्यं विडम्बितं विडम्बनाप्रायं ! MI यक्षाविष्टपीतोन्मत्ताद्यङ्गविक्षेपवत्, सर्वाण्याभरणानि भारास्तत्त्वतो भाररूपत्वात्तेषाम् । तथा हि कस्यचित् श्रेष्ठि-सुतस्य श्रेष्ठिसम्पदः । वर्यसौन्दर्यचातुर्या, प्रिया प्राणप्रियाभवत् ।।१।। हे स्नुषे ! सौधमध्यात्त्वं, शिलापुत्रकमानय । तामित्यूचेन्यदा श्वश्रूः, स्वयं कृत्यपरायणा ।।२।। महाभारमहं मात-स्तमुद्वोढुं न हीश्वरी । इति सा स्माह तच्छ्रुत्वा, विममर्शति तत्पतिः ।।३।। देहरक्षापराऽलीको-त्तरमेषा ददौ शठा । तत्तथा शिक्षयाम्येना, नैवं कुर्याद्यथा पुनः ।। ४ ।। ध्यात्वेति तं दृषद्गोलं, स्वर्णेनावेष्ट्य सर्वतः । तत्स्वरूपमजानत्यास्तस्याः सोऽन्येधुरार्पयत् ।।५।। सापि तुष्टा तमादाय, विदधे कण्ठभूषणम् । विमुह्यन्ति स्वरूपेण, बाह्येनैवाल्पमेधसः ।।६।। ततोऽन्यदा तत्पतिस्ता-मित्यप्राक्षीदयि प्रिये ! । इदं भूषणमुद्वोढुं, भवत्या शक्यते न वा ? ।।७।। ||७|| साऽवादीत्किमियन्मात्र-मियतोपि चतुर्गुणान् । सुखं सुवर्णालङ्कारा-नुद्वहेहं प्रदत्त चेत् ! ।।८।। 16|| स्मित्वा स्माह ततः कान्तो, यं शिलापुत्रकं तदा । न त्वमुद्वोढुमीशाभूः, करेण क्षणमप्यरे ! ।।९।। स्वर्णावृतः स एवासौ, कण्ठेन धियते सुखम् । स्वपुत्र इव वात्सल्या-जातु नोत्तार्यते हृदः ।।१०।। leir Isl sil ६०५ lel Jain Education Ind iana For Personal & Private Use Only Hot www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy