________________
उत्तराध्ययन
सूत्रम् ६०२
11
I6I
IST
Joil
कृतेभ्योऽर्थादवश्यवेद्यतया रचितेभ्यः कर्मभ्यो न मोक्षो मुक्तिरस्ति, ददति हि तानि निजं फलमवश्यमिति भावः । प्राकृतत्वाग्नेह विभक्तिव्यत्ययः, । चित्रसम्भूतीय
न च वाच्यं त्वयैवात्र व्यभिचार इत्याह - अर्द्रव्यैः कामैश्च शब्दादिभिः, उत्तमैः प्रधानरुपलक्षितः सन्नात्मा ममंति' ममापि 'पुण्णफलोववेएत्ति' । नाम 2 अत्र 'उप' 'अप' 'इत' इति शब्दत्रयस्थापने पृषोदरादित्वादपशब्दस्याकारलोपे 'उपपेत' इति द्रष्टव्यं, ततश्च पुण्यस्य शुभकर्मण: फलं पुण्यफलं त्रयोदशतेनोपपेतो युक्तः, पुण्यफलोपपेतोऽभूदिति शेषः ।।१०।। ततश्च -
मध्ययनम् जाणासि संभूअ महाणुभाग, महिड्डिअं पुण्णफलोववेअं ।
चित्तंपि जाणाहि तहेव रायं, इड्डी जुई तस्सवि अप्पभूआ ।।११।। व्याख्या - जानासि अवबुध्यसे यथा त्वमात्मानमिति शेषः, हे सम्भूत ! पूर्वभवे सम्भूताभिधानमहानुभागं बृहन्माहात्म्यं महर्धिक ॥ चक्रवर्तिपदावाप्त्या सातिशयसम्पद्युक्तं, अत एव पुण्यफलोपपेतं चित्रमपि जानीहि, तथैव तादृशमेव हे राजन् ! किमित्येवमत आह-ऋद्धिः & सम्पत्, द्युतिर्दीप्तिस्तस्यापि जन्मान्तरनाम्ना चित्राभिधानस्य ममापीति भावः, चशब्दो यस्मादर्थे, ततो यस्मात्प्रभूता बह्वी बभूवेति शेषः, कि R गृहस्थभावे ममाप्येवंविधत्वादेवेति भावः ।।११।। यदि तवाप्येवंविधा सम्पदभूत्तदा कथं प्रव्रजित: ? इत्याह -
महत्थरूवा वयणप्पभूआ, गाहाणुगीआ नरसंगमज्झे । जं भिक्खुणो सीलगुणोववेआ, इहज्जयंते समणोम्हि जाओ ।।१२।।
Inn Education
For Personal & Private Use Only
www.jainelibrary.org