________________
उत्तराध्ययन
सूत्रम्
नाम
५९८
Wel
hi चित्रसम्भूतीय||Gl ||61
त्रयोदशमध्ययनम्
Nell
Gll Isl
sil llsil
fell
llol
llol
("दासा दसण्णे आसी, मिआकालिंजरेनगे। हंसा मयंगतीराए, सोवागा कासिभूमीए ।।१।।देवाय देवलोगंमि, आसि अम्हे महिड्डिआ") ill
पूरयति यो द्वितीयं, श्लोकं तस्मै ददामि राज्यार्धम् । इति चाघोषयदुचैः, पुरेऽखिले प्रतिदिनं चक्री ।। ३७९।। राज्यार्थी चक्रे तं, श्लोकं साधु जनोऽखिलः कण्ठे । 'पूरितवान्न तु कश्चि-द्विपश्चिदपि पश्चिमश्लोकम् ।। ३८०।। इतश्च - जीवश्चित्रस्य महेभ्य-नन्दनः पुरिमतालसज्ञपुरे । जातिस्मरणाद् ज्ञात्वा, पूर्वभवानाददे दीक्षाम् ।।३८१।। ग्रामादिषु विहरंस्तं, सदलं श्लोकं निशम्य लोकेभ्यः । प्राग्भवबान्धवबोधन-कृते स काम्पील्यनगरमगात् ।। ३८२।। तत्रारामे नाम्ना, मनोरमे संस्थितः स साधुस्तम् । सार्धं श्लोकं श्रुत्वा-रघट्टिकमुखाददोऽवादीत् ।।३८३।। ("इमा णो छट्ठिआ जाई, अन्नमन्त्रेण जा विणा") इति तेनोक्तमधीत्या-रघट्टिकः श्लोकपश्चिमदलं तत् । गत्वा सपदि नृपाग्रे, श्लोकयुगलमब्रवीत् सकलम् ।।३८४।। स्नेहावेशान्मूच्र्छा, गतस्ततोऽपतदिलापतिरिलायाम् । तञ्च प्रेक्ष्यानभ्रा-ऽशनिपातमिवाक्षुभत् परिषत् ।। ३८५।। जातेदृशी दशा नः, प्रभोगिरास्येति परिजन: कोपात् । तमथारघट्टिकं मुहु-रताडयत् पार्णिघाताद्यैः ।। ३८६ ।। न मयायमपूरि ततो, मा मां ताडयत यूयमिति विलपन् । मुक्तः स कोस्य पूरक, इति पृष्टश्चाब्रवीदेवम् ।।३८७।।
श्लोकमपूरयदपरं, मुनिर्मदरघट्टनिकटभूमिष्ठः । प्रापमहं तु व्यसनं, मुधैव राज्यस्पृहाग्रहिलः ! ।।३८८।। १. पूरितवान्न तु कशि-त्पश्चिममदं द्वितीयस्य ।। इति "घ" संज्ञकपुस्तके ।।
16ll
llsil
leill lell
Isil
llell
liel
Isill 16ll
५९८
liel
min Education International
For Personal & Private Use Only