SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ MSA foll उत्तराध्ययन सूत्रम् विनयनाम प्रथम २२ मध्ययनम Isl IIsll ||७|| ||slil ||6|| lel lell iall llell llell all foll ell . कारणान्तरेण च गुरुभिर्निर्भर्त्सतोऽपि न तावत्कुप्येत्, कथञ्चिदुत्पन्नं तु क्रोधमसत्यं तदुत्थविकल्पविफलीकरणेन कुर्वीत विदध्यात् । क्रोधासत्यत्वकरणे चायं दृष्टान्तः तथाहि कुत्रचिद्ग्रामे, कुलपुत्रस्य कस्यचित् । सोदरः प्रत्यनीकेन, निन्ये यमनिकेतनम् ।।१।। ततस्तजननी प्रोचे, तमिति प्रत्यहं मुहुः । प्रभविश्नुरपि भ्रातृ-घातकं हंसि नो कुतः ? ।।२।। बलिनो ह्यलसायन्ते, वैरशुद्धयै न कर्हिचित् । न विपक्षमुपेक्षन्ते, पन्नगा अपि मानिनः ! ।।३।। तदाकर्ण्य सरोषेण, तेन पौरुषशालिना । जीवग्राहं प्रगृह्यारि-रानिन्ये मातुरन्तिकम् ।।४।। प्रोक्तश्चारे ! भ्रातृघातिन् !, कथं त्वां मारयाम्यहम् ? । ततः स प्राञ्जलिः प्रोचे, कृपाणं प्रेक्ष्य कम्पितः ।।५।। हन्यन्ते शरणायाता, यथा त्वं मां तथा जहि । सदैन्यमिति तेनोक्ते, स मातुर्मुखमैक्षत ।।६।। सापि तं दीनतां प्राप्तं, प्रेक्ष्योत्पन्नकृपाऽलपत् । आर्यः पुत्र! न मार्यन्ते, कदापि शरणागताः ।।७।। यतः"शरणागतविस्रब्ध-प्रणतव्यसनार्दितान् । रोगिणः पङ्ग मुख्यांश्च, नैव ध्नन्ति महाशयाः! ।।८।।" पुत्रः प्रोवाच मातमें, रोषः स्यात्सफलः कथम् ? । सर्वत्र सफलः कोपो, न कार्य इति साप्यवक् ।।९।। इति मातृगिरा जातो-पशान्तिस्तं मुमोच सः । तौ नत्वा क्षमयित्वा च, स्वागः सोऽपि गृहं ययौ ।।१०।। मातृवाक्यमधिगम्य यथासौ, मोघमेव विदधे किल कोपम् । तद्वदेव भजता जिनवाणी, साधुनापि विफलः स विधेयः ।।११।। Tikall llell Holl llell all Ioll Hell liell liall Ioll ॥ll Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy