________________
Mell
उत्तराध्ययन
सूत्रम्
16
sill
ilal
Wol
ill || ||l Ill
आजन्मसौख्यदाः शिष्या, गुरोः स्युः केऽपि धीधनाः । आद्य एव दिनेऽहं तु, जातोऽसातकरो गुरोः ।।२८।।
islil विनयनाम
प्रथमस्थाण्वादिना गुरोः पीडा, माभूद् भूयोऽपि भूयसी । ध्यायनिति प्रयत्नेन, स चचाल शनैः शनैः ।।२९।।
मध्ययनम् तस्यैवं व्रजतः शुद्धा-शयस्य समतानिधेः । महात्मनः समुत्पेदे, निशायामेव केवलम् ।।३०।। अथ प्रभाते सञ्जाते-ऽभ्युदिते च दिवाकरे । सूरिणा ददृशे शिष्यो, रुधिरालिप्तमस्तकः ।।३१।। ततः शान्तरसाचान्त-स्वान्तः सूरिरचिन्तयत् । अहो ! नवीनशिष्यस्या-ऽप्यमुष्य क्षान्तिरुत्तमा ।। ३२।। क्रोधाध्मातेन मयका, दण्डेनैवं हतोऽपि यत् । नातनोद्वाङ्मनोदेहै-वैगुण्यं किञ्चिदप्यसौ ।।३३।। चिरप्रव्रजितस्यापि, रोषदोषांश्च जानतः । प्राप्ताचार्यपदस्यापि, धिग्मे प्रबलकोपताम् ! ।।३४।। इयश्चिरं सुदुष्पालं, पालितं मयका व्रतम् । परं तनिष्फलं जज्ञे, कोपात्तन्मेऽमुना कृतम् ।। ३५ ।। भावनाभिरिति भावितचित्तः, सोऽपि केवलमवाप मुनीन्द्रः । एवमुत्कटरुषोऽपि गुरोः स्यु-र्मोक्षदाः सविनयाः सुविनेयाः ।। ३६ ।। इति श्रीचण्डरुद्राचार्यकथा । इति सूत्रार्थः ।।१२।। अथ गुरुचित्तानुवृत्तेरुपायमाहनापुट्ठो वागरे किंचि, पुट्ठो वा नालिअं वदे । कोहं असचं कुग्विजा, धारिज्जा पिअमप्पिअं ।।१४।। व्याख्या-नापृष्टः कथमिदमित्यादि गुरुणाऽजल्पितः व्यागृणीयाद्वदेत्तादृशकारणं विना, किञ्चित् स्तोकमपि, पृष्टो वा नालीकमनृतं वदेत्, un
llol Ifoll IGll ||७||
ial ial
||७|| lal
fell
lell |Gll Isl
||
New
WE.M
min Education International
For Personal & Private Use Only
www.jainelibrary.org