________________
||
उत्तराध्ययन
सूत्रम् २०
||61 || Isll llll ||
विनयनाम
प्रथमIsl
मध्ययनम् s
Jell Jel
llel
||Gll ||Gl ||७
||
Is
||61
तद्विलोक्य विषण्णास्त-द्वयस्यास्तमथाभ्यधुः । मित्र ! सद्यः पलायस्व, धाम यामो वयं यथा ।।१५।। आसन्नसिद्धिकः सोऽथ, लघुकर्मेत्यचिन्तयत् । कथं गच्छाम्यहं गेहं स्ववाचा स्वीकृतव्रतः ।।१६।। प्रमादसङ्गतेनापि, या वाक् प्रोक्ता मनस्विना । सा कथं दृषदुत्कीर्णा-क्षरालीवाऽन्यथा भवेत् ।।१७।। नर्मणापि मया लब्धं, रक्षणीयं ततो व्रतम् । जहाति घुमणि को हि, विनायासमुपस्थितम् ।।१८।। ध्यात्वेति भावसाधुत्वं, स सुधीः प्रत्यपद्यत । यथास्थानं ततो जग्मु-स्तद्वयस्या विषादिनः ।।१९।। विनेयोऽथावदत्सूरिं, भगवन् ! बन्धवो मम । श्रामण्यं मोचयिष्यन्ति, तद्यामोऽन्यत्र कुत्रचित् ।।२०।। गच्छो महानसौ गच्छन्, प्रच्छन्नमपि यज्जनैः । ज्ञायते तद् द्वयोरेवाऽऽवयोर्गमनमर्हति ।।२१।। सूरि: प्रोवाच यद्येवं, तदाऽध्वानं विलोक्य । यथा रजन्यां गच्छामः, सोऽप्यालोक्य तमाययौ ।।२२।। प्रतस्थेऽथ निशीथिन्यां, सूरिनूतनशिष्ययुक् । पुरो याहीति गुरूणा, चोक्तः शिष्यो ययो पुरः ।।२३।। अपश्यनिशि वृद्धत्वात्, स्थाणुना स्खलितो गुरुः । वेदनाविह्वलो जज्ञे, ज्वलद्रोषभराकुलः ।। २४ ।। हा दुष्टशिष्य ! सन्मार्गो, न व्यलोकीति विब्रुवन् ! दण्डेन शिष्यं शिरसि, कृतलोचे जघान सः ।। २५ ।। तत्प्रहारस्फुटन्मौलि-निर्गच्छद्रुधिरोऽपि सः । न व्यब्रवीनाप्यकुप्यत्, प्रत्युतैवमचिन्तयत् ।। २६ ।। स्वगच्छमध्ये ससुखं, तिष्ठन्तोऽमी महाशयाः । अधन्येन मया दुःख-भाजनं विहिता हहा ! ।।२७।।
||Gl || ||
||
wal wol
Iol
leil
|| ||ll
Wish
||oll iislil Illl ||oll Iloll
Nol
||61 16 Ill llell Ilsil lleel Jell
Hell Jain Education International
||ll Ifoll IIoll Ifoll ||sil
www.anebry.org
For Personal & Private Use Only