SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ५९६ isi चित्रसम्भूतीयII नाम त्रयोदशमध्ययनम् lall Ill leoall roll पृष्टाथ मया धात्र्या, सा प्रोचे येन रक्षितास्मि गजात् । स हि नरमणिर्न रमणो, यदि मे स्यात्स्यात्तदा मरणम् ।।३५३।। तद् ज्ञापितोथ तस्या-स्तातो मां प्राहिणोत्तव समीपे । तदरक्षि यथा व्याला-द्रक्ष तथा मन्मथादपि ताम् ।। ३५४।। तामपि ततः कुमारः, परिणिन्ये सोत्सवं शुभे दिवसे । वरधनुरपि नन्दाह्वा-मुदुवाह सुबुद्धिसचिवसुताम् ।। ३५५।। अथ तो तत्र वसन्ती, प्रथितौ पृथ्व्यां गुणैरजायेताम् । वाणारसी प्रति ततः, सोत्साहौ प्रास्थिषातां च ।। ३५६।। आयान्तं ब्रह्मसुतं, ज्ञात्वा वाणारसीपतिः कटकः । अभ्येत्य सोत्सवं निज-गृहमनयद् ब्रह्मराजमिव ।।३५७।। निजतनयां कटकवती, चतुरङ्गं कटकमुत्कटं कटकः । प्रकटं विसङ्कटमदा-द्धनं च तस्मै मुदितचेताः ।। ३५८।। अथ तद्दुताहूता, धनुसचिवकणेरुदत्तचम्पेशाः । भगदत्तचन्द्रसिंहा-दयः परेप्याययुर्भूपाः ।।३५९।। वरधनुमथ सेनान्यं, कृत्वा तैः परिवृतो नृपैर्नृपभूः । प्रति काम्पील्यं प्रास्थित, दीर्घ दीर्घायने नेतुम् ।। ३६०।। दीर्घप्रहितो दूतो-ऽथागत्यैवं जगाद कटकादीन् । दीर्घेण समं सख्यं, त्यक्तुं युक्तं न वः प्राच्यम् ।। ३६१।। ते प्रोचुर्ब्रह्मयुताः, पञ्चवयस्याः पुरा भवाम वयम् । ब्रह्मणि तु गते स्वर्ग, मैत्री प्राग दीर्घ एव जहौ ।।३६२।। यद् ब्रह्मणोपि पुत्रे, राज्ये च त्रातुमर्पिते दीर्घः । चिरमकृत कर्म वैशस-मनुतिष्ठति नान्त्यजोपि हि तत् ! ।।३६३।। तद्गत्वा वद दीर्घ, यदेत्यसौ ब्रह्मसूस्ततो नश्य । यदि वा भवाजिसज्जो, दूतं प्रोच्येति ते व्यसृजन् ।। ३६४।। काम्पील्यमथ प्राप्य, ब्रह्मसुतोऽनवरतप्रयाणैाग् । सैन्यै रुरोध परितो, नीरैनीरधिरिव द्वीपम् ।।३६५।। lioil ५९६ llol llol llol in Econo For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy