________________
||oll
Nisi
उत्तराध्ययन
सूत्रम् ५८७
Moll चित्रसम्भूतीयIsl
त्रयोदश
||sl IIell
61 16
नाम
Is0
मध्ययनम्
lol
NG| ||७||
lleli leel
सोथ जगौ भ्रातस्त्वं, प्रसद्य मयि सद्य एव पश्येदम् । मानापगमो व्यथयति, मामन्तर्न तु धनापगमः ।। २३९ ।। वरधनुरथ तं पश्यन्, ददर्श तञ्चरणयोरय: सूची: । तच ज्ञात्वा तं द्रुत-मुपेत्य बुद्धिल इति प्रोचे ।। २४०।। यदि मे छद्म न वक्ष्यसि, लक्षार्द्ध तव तदा प्रदास्येहम् । तेनेत्युक्तो वरधनु-रूचे तद्रहसि भूपभुवे ।। २४१।। सूची: कृष्ट्वा स ततस्तं सागरकुक्कुटेन योजितवान् । अपसूचिकं च बुद्धिल-कुक्कुटमपरो द्रुतमजैषीत् ।। २४२।। तुष्टोथ सागरस्ता-वारोप्य रथं स्वमन्दिरमनैषीत् । स्वगृह इव तद्गृहे ता-वपि तस्थतुरुचितलीलाभिः ।। २४३।। बुद्धिलदासस्तत्रा-गतोन्यदा वरधनुं रहसि नीत्वा । प्रोचे यत्तव कथितं, लक्षार्द्ध बुद्धिलेन तदा ।। २४४।। तत्स्थाने तेनासौ, हारः प्रहितोस्ति 'चतुरयुतमूल्यः । इत्थं प्रोच्य करण्डं, दत्वा च यथागत: सोगात् ।।२४५।। वरधनुरपि गत्वा तनिवेद्य निखिलं करण्डमुद्धाट्य । मौक्तिकरुचिजितसितरुचि-मदीदृशनृपभुवे हारम् ।। २४६।। हारे हारिणि तत्राव-लम्बितं लेखमात्मनामाङ्कम् । दृष्ट्वा नृपभूः सुहृदं, कस्यासो लेख इत्यूचे ।। २४७।। को वेत्ति कस्यचिदयं, त्वत्समनाम्नस्तवाथवा भावी । तेनेत्युदितो गाढो-त्सुकोभवद्भूपभूर्जातुम् ।। २४८।। लेखं तमथो वरधनु-रुन्मुद्रयति स्म नलिनमिव तरणिः । आर्यामेकां लिखितां, तत्र ददर्शालिपङ्क्तिमिव ।। २४९।। सा चेयं "यद्यपि जनोर्थ्यतेसौ, जनेन संयोगजनितयत्नेन । त्वामेव हि रत्नवती, तथापि मानयितुमभिलषति ।। २५०।।"
all
Ioll
lel ller
foll
IGll llol
16
१.४०००० ।।
likel
||Gll Gll
lol
min Education International
For Personal & Private Use Only
www.jainelibrary.org