SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ५00 M चित्रसम्भूतीयIoll नाम 16l त्रयोदश||oll मध्ययनम् fiell Ioll lol ||७|| ||७|| ब्रह्मनृपस्य भ्राता, लघुरहमस्मि त्वदीयतातस्य । तत्प्राप्तोसि स्वगृहं, तिष्ठ सुखं वत्स ! मा भेषीः ।।१४९।। तेनेति बाढमुदितो, मुदितस्तत्राश्रमे कुमारोऽस्थात् । आगाञ्च जलदकाल:, काल इव निदाघदाहस्य ।।१५०।। तमथ पितृव्यः प्रेम्णा, सविशेषमपाठयत्कला: सकलाः । पात्रे दत्ता श्रीरिव, विद्या हि स्यादनन्तफला ।।१५१।। जातेथ शरत्काले, कन्दादिकृते वनं ययुर्मुनयः । ब्रह्मसुतोपि समं तै-र्ययौ निषिद्धोपि कुलपतिना ।।१५२॥ तत्र च फलकुसुमभरे-नमितानमितान् स भूरुहः पश्यन् । वनगजमेकमपश्य-धुवराजमिवाद्रिराजस्य ।।१५३।। तस्यानुपदमयासी-निवार्यमाणोपि तापसैर्नृपभूः । तेनाहूतः सद्यो, ववले व्यालोपि रोषान्धः ।। १५४।। तटिनीपूरमिव द्रुत-मायान्तं तं च वञ्चयितुं मनसा । प्रक्षिप्तमुत्तरीयं, क्रीडारसिकेन भूपभुवा ।।१५५ ।। तत्तु करेण गृहीत्वा, प्राक्षिपदन्तर्नभः क्रुधा कुम्भी । निपतच ततो नृपभू-स्तदाददे वञ्चितद्विरदः ।। १५६ ।। क्रीडाभिरिति क्रीडति, तस्मिन् करिणा समं कृताटोपः । जलधाराभिर्जलदः, शरैरिवोपाद्रवत्तमिभम् ।। १५७।। तस्मिंस्ततः प्रणष्टे, द्विपे कुमारोपि जातदिग्मोहः । भ्राम्यन्त्रितस्ततः शैल-निम्नगामुत्ततारकाम् ।।१५८।। तस्याश्च तटे नगरं, पुराणमुद्वसमुदीक्ष्य पतितगृहम् । तत्र प्रविशन्नेकं, वंशकुडङ्गं ददर्श घनम् ।।१५९।। तत्पाचे फलकासी, दृष्ट्वा शस्त्रप्रियोऽगृहीनृपभूः । तं वंशकुडङ्गञ्चा-सिनाच्छिनत्तत्परीक्षायै ।। १६० ।। तस्माद्विनिर्गतमथ, स्फुरदधरपुटं स्फुटं समीक्ष्य शिरः । सम्भ्रान्तो ब्रह्मसुतः, सम्यगवालोकयद्यावत् ।। १६१।। Islil ||७|| Isl Toll islil Illl lifoll Inn Educational For Personal & Private Use Only Hemaw.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy