________________
Hel
llel liel
llll Isll
l
उत्तराध्ययन-
सूत्रम् ५७८
Tell llell
|oll
is चित्रसम्भूतीयisi नाम ||s
त्रयोदशमध्ययनम्
16ll
llel
Isi Per
foll 16ll
all
सम्भ्रान्तोथ कुमारः, किमेतदिति मन्त्रिनन्दनमपृच्छत् । सोप्यब्रवीदिदं खलु, चुलनीदुश्चेष्टितं निखिलम् ।।१२३।। सत्रं यावत्पित्रा, तदिह सुरङ्गा कृतास्ति पातुं त्वाम् । तद्द्वारमितः प्रविश, प्रकाश्य पाणिप्रहारेण ।।१२४।। छन्नमुदन्तममुं मम, पिता न्यवेदयदतस्तव श्वसुरः । प्रैषीहासीमेनां, तत् प्रतिबन्धं विमुञ्चास्याः ।। १२५ ।। तेनेत्युक्तो नृपभूर्भुपुटमास्फोट्य पाणिघातेन । सुहृदा समं सुरङ्गा, विवेश योगीव भूविवरम् ।। १२६ ।। प्राप्तौ च सुरङ्गान्ते, तुरगावारुह्य मन्त्रिणा दत्तौ । तौ जग्मतुः कुमारी, पञ्चाशद्योजनानि द्राक् ।।१२७।। तत्र च विहाय वाहौ, गुरुमाईतिक्रमश्रमेण मृतौ । क्रोष्टुकसञ्जमगातां, ग्रामं तौ पादचारेण ।।१२८।। स्माहाथ भूपभूरिति, मां पीडयतः सखे ! क्षुधोदन्ये । क्षणमिह तिष्ठ स्वामि-नित्यूचे तं च सचिवसुतः ।। १२९ ।। किञ्चिञ्च विचार्य दिवा-कीति ग्रामात्तत: समाकार्य । तौ वपनमकारयतां, चूडामात्रं त्वधारयताम् ।। १३०।। सन्ध्याभ्राणीव रवि-श्वेतरुची धातुरक्तवसनानि । परिधाय न्यक्षिपतां, स्वकण्ठयोर्ब्रह्मसूत्रं तौ ।। १३१।। वरधनुरथभूपभुवः, श्रीवत्सालङ्कतं हृदयपट्टम् । चतुरङ्गुलपट्टेन, प्यधादहो ! रिपुभयं प्रबलम् ।। १३२।। वेषान्तरमिति कृत्वा, ग्रामान्तस्तौ गतौ द्विजः कश्चित् । भोजनकृते न्यमन्त्रय-दभोजयञ्चातिगौरवतः ।। १३३।। अथ मूर्ध्नि ब्रह्मभुवो-ऽक्षतान् क्षिपन्ती द्विजप्रिया प्रमदात् । सितवसनयुगं कन्यां, चोपानिन्येऽप्सर:कल्पाम् ।।१३४।। ऊचेऽथ वरधनुः किं, ददास्यमूमस्य निष्कलस्य बटो: ? । नह्यति नह्यतिरुचिरां, हारलता कोपि करभगले ! ।। १३५ ।।
lol
loll Ifoll
lol
Itall Ifoll IGll
lel
||
lel
||७||
Nel
||ला ||
५७८
Isil
Mel
in Education International
For Personal & Private Use Only
www.jainelibrary.org