________________
5
ller
उत्तराध्ययन
सूत्रम् ५७६
llall liall fall
का चित्रसम्भूतीयIs नाम |lol ill त्रयोदशIll ||७|| मध्ययनम
lioll
Jel
||sil
foll
Isil
Isil
llol
lleil
Isl llell
तेनाथ तयोश्चरिते, निवेदिते ब्रह्मसुस्तदसहिष्णुः । अन्तःपुरान्तरगम-द्वद्ध्वा द्विककोकिले कुपितः ।। ९७।। वध्याविमो यथा वर्ण-सङ्करादीदृशः परोपि तथा । हन्तव्यो मे निश्चित-मित्युञ्चैस्तत्र चावादीत् ।। ९८ ।। काकोहं त्वं च पिकी-त्यावां खलु हन्तुमिच्छति सुतस्ते । तत इति दीर्घोक्ते, देव्यूचे शिशुगिरा का भी: ? ।। ९९।। भद्रकरेणुमृगेभी, नीत्वा तत्रान्यदा तथैव पुनः । नृपभूः प्रोचे तञ्च, श्रुत्वा दीर्घोवदझुलनीम् ।। १०० ।। शृणु सुभगे सुतवाणी, साभिप्रायां हलाहलप्रायाम् । देव्यवदद्भवतु तथा-प्यनेन किं जायते शिशुना ? ।। १०१।। हंस्या सममन्येद्यु-र्बकमादायावरोधमायातः । नृपभूरुवाच नैवं, कस्याप्यनयं सहिष्येऽहम् ।। १०२।। तत इत्यवदद्दीर्घः, शृणु देवि ! शिशोः सुतस्य वचनमिदम् । अनुमापयति मनःस्थं, कोपं यद्धूम इव वह्निम् ।। १०३।। वृद्धिं गतो हि भावी, सुखविघ्नायावयोरसौ नियतम् । तदयमुदयन्निवामय, उच्छेद्यः शिशुरपि दुरात्मा ! ।।१०४ ।। देव्यूचे राज्यधरं, हन्मि कथं तनयमौरसं स्वामिन् ! । पशवोपि प्राणानिव, निजान्यपत्यानि रक्षन्ति ।। १०५ ।। भूयोप्यूचे दीर्घा, रिपुमेवावेहि सुतममुं सुतनो ! । तत्किं मुह्यसि मयि सति, बहवस्तव भाविनस्तनयाः ।। १०६ ।। तदथ प्रतिपद्योचे, चुलनी रतरागलुप्तसुतमोहा । केनोपायेनास्मि-त्रिहते वचनीयता न स्यात् ।। १०७।। दीर्घोब्रवीत्कुमारो, विवाह्यतां तस्य वासगृहदम्भात् । गूढप्रवेशनिर्गम-मेकं लाक्षागृहं कार्यम् ।। १०८।। तत्र च सवधूकेस्मिन्, सुप्ते रात्रौ हुताशनो ज्वाल्यः । इति तौ विमृश्य जतुगृह-मारम्भयतामसारमती ।। १०९।।
|| ||all ||oll
Woli
||
lies
likell
llel Jell
16 Isl Jell
ell Isll
५७६
161
in Econ
For Personal Private Use Only