________________
उत्तराध्ययन
सूत्रम् ५७५
lal lel 16 116h Icell
|| id चित्रसम्भूतीयfoll
नाम || is त्रयोदश
मध्ययनम्
lish
ISM
Isll
leel
पञ्चापि ब्रह्माद्या-स्तेन्योन्यं विरहमक्षमाः सोढुम् । एकैकपुरे न्यवसन्, प्रतिवर्ष संयुतः क्रमशः ।।८४।। काम्पील्यपुरेऽन्येद्युः, सममायातेषु तेषु परिपाट्या । ब्रह्मनृपस्य कदाचि-च्छिरोव्यथा दुस्सहा जज्ञे ।। ८५।। जातद्वादशवर्ष, न्यस्याङ्के ब्रह्मदत्तमथ सुहृदाम् । सोचे कारयितव्यं, राज्यमिदमनेन युष्माभिः ।। ८६।। इत्युक्त्वा राज्ञि मृते, कृत्वा तत्प्रेतकर्म तत्सुहृदः । दध्युमित्रस्य सुतः, शैशवमवगाहते यावत् ।। ८७।। तावद्राज्यमिदं रक्षणीयमारक्षकैरिवास्माभिः । इति दीर्घ रक्षार्थं, मुक्त्वाऽन्ये स्वस्वनगरमगुः ।।८८।। दीर्घोथ राज्यमखिलं, बुभुजेऽरक्षकमिवौदनं काकः । मार्जारो दुग्धमिवा-न्वैषीत्कोशं च चिरगूढम् ।। ८९।। मध्ये शुद्धान्तमगा-दनर्गल: पूर्वपरिचयादनिशम् । रहसि च चुलनीदेवी-मवार्त्तयन्नमनिपुणगिरा ।।९०।। सोथावमत्य लोकं, ब्रह्मनृपतिसौहदं कुलाचारम् । अरमयदनिशं चुलनी-महो ! अजय्यत्वमक्षाणाम् ।। ९१।। ग्रहिलापटमिव मुमुचे, चुलन्यपि प्रेम रमणविषयं द्राक् । तौ च सुखं भुञ्जानौ, नाज्ञासिष्टां दिनान् व्रजतः ।। ९२।। तञ्च तयोर्दुश्चरितं, ब्रह्मनृपस्य द्वितीयमिव हृदयम् । ज्ञात्वा सचिवो धनुरिति, दध्यौ सद्बुद्धिजलजलधिः ।। ९३।। कुरुतामकार्यमेत-झुलनी जातिस्वभावचपलमतिः । न्यासेर्पितमपि सकलं, दीर्घा विद्रवति तदयुक्तम् ।।९४।। तदसौ किमपि विदध्या-द्भूपभुवोपि व्यलीकमतिदुष्टः । नीचो हि पोषकस्या-प्यात्मीयः स्यान्न भुजग इव ।। ९५ ।। ध्यात्वेति ज्ञापयितुं, तत्सकलं सेवितुं कुमारं तम् । वरधनुसझं निजसुत-मादिशदतिनिपुणमतिविभवम् ।। ९६ ।।
||६|| lreall
ISM
lIsl
५७५
el
lIsll
16|| in Education International
For Personal & Private Use Only
www.jainelibrary.org