SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ MI lisil ||sl lisil उत्तराध्ययन सूत्रम् lell ५७ foll i॥ चित्रसम्भूतीयiloli नाम त्रयोदशमध्ययनम् Iel llell all liell lleell foll all ||6ll Ill सुलभा हि बालसङ्गा-दाक्रोशाघातमरणधर्मगमाः । एषु च यथोत्तरस्या-भावे मनुते मुनिर्लाभम् ।।५८।। अपकृतिकारिषु कोपः, क्रियते चेत्कोप एव स क्रियताम् । यो हरति धर्मवित्तं, दत्ते चानन्तदुःखभरम् ।। ५९।। इत्यादिचित्रवाक्यः, श्रुतानुगामिभिरशामि तत्कोपः । पाथोधरपाथोभि-गिरिदावानल इव प्रबलः ।।६०।। तं चोपशान्तमनसं, प्रणम्य लोका ययुनिजं स्थानम् । तौ च श्रमणो जग्मतु-रुद्यानं दध्यतुश्चैवम् ।। ६१।। आहारार्थं प्रतिगृह-मटद्भिरासाद्यते व्यसनमुः । गात्रं चैतद्गत्वर-माहारेणापि कृतपोषम् ।। ६२।। तत्कृतसंलेखनयो-राहारैरावयोः कृतमिदानीम् । इति तौ चतुर्विधाहा-रमनशनं चक्रतुः कृतिनौ ।। ६३।। कः पर्यभून्मयि नृपे, सति यतिमिति पृच्छतो जनान् राज्ञः । केनाप्यूचे नमुचि-स्तमथ नृपोऽबन्धयत्कुपितः ।। ६४।। पुनरप्येवं माऽन्यो, मान्यानपमानयत्विति महीमान् । पुरमध्येनानेषी-दुपमुनि तं दस्युमिव बद्धम् ।। ६५।। तौ चावन्दत भूपो-ऽङ्करयन्निव मेदिनीं मुकुटकिरणैः । तं चानन्दयतां चारु-धर्मलाभाशिषा श्रमणौ ।। ६६ ।। लभतामपराधी वः, स्वकर्मफलमयमिति ब्रुवनृपतिः । शमिनोरदर्शयदथो-पस्थितमरणं नमुचिसचिवम् ।। ६७।। मोक्तव्य एव राज-त्रयमित्युदितस्ततो नृपस्ताभ्याम् । निर्वास्य पुरादमुच-गुरुवचनाद्वध्यमपि तं द्राक् ।। ६८।। तौ नन्तुमथायासी-त्स्त्रीरत्नं चक्रिणः सुनन्दाख्या । देवीभिरिवेन्द्राणी, वृता सपत्नीभिरखिलाभिः ।।६९।। तस्याश्च प्रणताया, वेणिलतास्पर्शमनुभवन् सद्यः । सम्भूतोभद्रक्तो-ऽनङ्गस्यापि प्रबलताहो ! ।। ७०।। llell lall lifoll Wal ५७३ IIslil Isl lol ||ol Neoli ||oll f ormal ile lain Edacation in For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy