SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ५६९ isi चित्रसम्भूतीय नाम त्रयोदशमध्ययनम् || ||७|| तेन च दष्टे दुष्टे-नैकस्मिंस्तं गवेषयन् भुजगम् । अपरोप्यदंशि तेनैव, भोगिना पूर्वरिपुणेव ।।९।। तो चाप्राप्तचिकित्सो, विपद्य कालिञ्जराचलोपान्ते । हरिणीकुक्षिप्रभवी, सञ्जातौ युग्मजो हरिणौ ।।१०।। स्नेहात् सह विहरन्ती, मुक्तकशरेण मृगयुणा तौ च । व्यापादितौ वराको, क्षिप्ताशनिना घनेनेव ।।११।। अथ मृतगङ्गातटिनी-तटस्थहंसीसुतावभूतां तौ । बाल्यादपि भ्रमन्ती, सममेव दृढानुरागेण ।।१२।। जालेन तौ निबध्या-न्यदाऽवधीज्जालिको गलं भक्त्वा । विषवल्लेरिव दारुण-महो ! फलं धर्मनिन्दाया: ।।१३।। अथ तौ वाणारस्यां, प्रभूतवित्तस्य भूतदत्तस्य । तनयावुभावभूतां, श्वपचपतेश्चित्रसम्भूती ।।१४।। वाणारस्यां च तदा, बभूव शङ्खाभिधो धराधिपतिः । तस्य च दुर्मतिसचिवः, सचिवोऽभून्नमुचिरिति नाम्ना ।। १५ ।। अपराधे स च महति, प्रछत्रवधाय भूतदत्ताय । दत्तोऽन्यदा नृपतिना, तं चेत्यूचे श्वपचनाथः ।।१६।। त्वां जीवयामि यदि मे, पुत्रौ पाठयसि भूमिगेहस्थः । नमुचिरपि प्रतिपेदे, तदपि वचो जीवितव्यकृते ।।१७।। अध्यापयञ्च सततं, कला विचित्राः स चित्रसम्भूतौ । मातङ्गपतेः पत्नी-मनुरक्तामरमयञ्च कुधीः ।। १८ ।। तचावबुद्ध्य रुष्टे, श्वपचपतौ हन्तुमुद्यते नमुचिम् । त्वरितमनाशयतामुप-कारित्वाञ्चित्रसम्भूतौ ।।१९।। निर्गत्य ततो नमुचि-द्रुतं ययौ हस्तिनापुरे नगरे । तत्र च सनत्कुमार-श्चक्री तं धीसखं चक्रे ।।२०।। Ish IN lifall ||oll Mall lall 161 llel ||sil lll ५६९ JainEducation intele... For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy