________________
उत्तराध्ययन
सूत्रम् ५६५
llol
fol
lol
के ते हरए के अ ते संतितित्थे, कहिंसि हाओ व रयं जहासि ।
Is हरिकेशीयनाम ___ अक्खाहि णो संजयजक्खपूइआ, इच्छामु नाउं भवओ सगासे ।। ४५।।
द्वादशव्याख्या - कस्ते तव हृदोनदः ? के अतेत्ति' किंचते शान्त्यै पापोपशमार्थं तीर्थं ? कहिंसि हाओ वत्ति' वाशब्दस्य भित्रक्रमत्वात्कस्मिन्वास्नातः
मध्ययनम् ll शुचीभूतो रज इव रजः कर्म जहासि त्यजसि ? गम्भीराशयो हि त्वं, तत्किमस्माकमिव तवापिहृदतीर्थमेव शुद्धिस्थानमन्यद्वेति न विद्य इति भावः । आचक्ष्व |वद नोऽस्माकं संयतयक्षपूजित ! इच्छामो ज्ञातुं भवतः सकाशे समीपेइति सूत्रार्थः ।।४५ ।। मुनिराह
धम्मे हरए बंभे संतितित्थे, अणाइले अत्तपसन्नलेसे ।
जहिंसि बहाओ विमलो विसुद्धो, सुसीतिभूओ पजहामि दोसं ।। ४६।। व्याख्या - धर्मः अहिंसादिरूपो हृदस्तस्यैव कर्मरजोपहारित्वात्, ब्रह्मेति ब्रह्मचर्य शान्तितीर्थ, तदासेवने हि सकलमलमूलं MS रागद्वेषावुन्मूलितावेब, तदुन्मूलने च न पुनर्मलसम्भव इति, सत्याधुपलक्षणं चैतत्तथा चाह - "ब्रह्मचर्येण सत्येन, तपसा संयमेन च । MS मातङ्गर्षिर्गतः शुद्धिं, न शुद्धिस्तीर्थयात्रया ॥१॥" किं च भवदिष्टतीर्थानि प्राणिपीडाहेतुतया प्रत्युत मलोपचयनिमित्तानीति कुतस्तेषां ॥ M शुद्धिहेतुता ? यदुक्तं - "कुर्याद्वर्षसहस्रं तु, अहन्यहनि मजनम् । सागरेणापि कृच्छ्रेण, वधको नैव शुद्धयति ।।१।।" ह्रदशान्तितीर्थे एव MS विशिनष्टि, अनाबिले मिथ्यात्वगुप्तिविराधनादिभिरकलुषे, अत एवात्मनो जीवस्य प्रसन्ना मनागप्यकलुषा लेश्या पीताद्यन्यतरा Is यस्मिंस्तदात्मप्रसन्नलेश्यं तस्मिन् धर्महदे ब्रह्माख्यशान्तितीर्थे च 'जहिंसित्ति' यस्मिन् स्नात इव स्नातो विमलो भावमलरहितः, अत एव विशुद्धो l
||l isil Jel
in E
ston
For Personal Private Use Only