SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ५६१ ||७|| किं माहणा जोईसमारभंता, उदएण सोहिं बहिआ विमग्गह । जं मग्गहा बाहिरिअं विसोहिं, न तं सुदिट्टं कुसला वयंति ।। ३८ ।। व्याख्या - किमिति क्षेपे, ततो न युक्तमिदं हे माहनाः ब्राह्मणाः ! ज्योतिरग्निस्तं समारभमाणाः प्रस्तावाद्यागं कुर्वन्त इत्यर्थः, उदकेन जलेन शोधिं विशुद्धिं 'बहिअत्ति' बाह्यां विमार्गयथान्वेषयथ । किमेवमुपदिश्यते ? इत्याह- यद्यूयं मार्गयथ बाह्यां स्नानादिबाह्यहेतुजां विशुद्धिं निर्मलतां न तत् सुदृष्टं सुष्ठु प्रेक्षितं कुशलास्तत्त्वविदो वदन्तीति सूत्रार्थः ।। ३८ । । एतदेव स्पष्टयति व्याख्या - कुशं च दर्भ, यूपं यज्ञस्तम्भं, तृणं च वीरणादि-काष्ठं च इन्धनादि, तृणकाष्ठं । अग्निं वह्नि, सर्वत्र प्रतिगृह्णन्त इति शेषः । सायं ॥ सन्ध्यायां, शब्दो भिन्नक्रमस्ततः 'पायंति' प्रातश्च प्रभाते उदकं जलं स्पृशन्त आचमनादिषु परामृशन्तः 'पाणाइंति' प्राणिनो द्वीन्द्रियादीनुदकादी ॥ भूतान् तरून् पृथिव्याद्युपलक्षणञ्चैतत् विहेठमानाः विविधं बाधमानाः भूयोपि पुनरपि न केवलं पुरा किन्तु शुद्धिकालेपि जलानलादिजीवोपमर्दनेन मन्दा जडाः सन्तः प्रकुरुथ प्रकर्षेण उपचिनुथ पापमशुभकर्म । अयं भावः कुशला हि कर्ममलविगमात्मिकां तात्त्विकीमेव शुद्धिं मन्यन्ते, भवदभिमते यागस्नाने च यूपादिपरिग्रहजलस्पर्शादिभिर्जन्तूपमर्दहेतुतया प्रत्युत कर्मलोपचयनिबन्धने एव, तत्कथं तद्धेतुकशुद्धिमार्गणं सुदृष्टं विदो Jain Education International कसं च जूवं तणकट्ठमग्गिं, सायं च पायं उदयं फुसंता । पाणाई भूआई विहेडयंता, भुज्जोवि मंदा पकरेह पावं ।। ३९ ।। For Personal & Private Use Only ||७|| हरिकेशीयनाम ॥७॥ lol द्वादशमध्ययनम् ५६१ www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy