________________
161
उत्तराध्ययन
सूत्रम् ५५८
द्वादशमध्ययनम्
Isl
॥ न ह्यमी शिशवो मूढाः सतां कोपार्हाः, किन्त्वनुकम्पार्हा एव । यदुक्तं - "आत्मद्रुहममर्यादं, मूढमुज्झितसत्पथम् । सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् ।।१।।" किञ्च महाप्रसादा ऋषयो भवन्ति, 'नहुत्ति' न पुनर्मुनयः कोपपरा भवन्तीति सूत्रार्थः ।।३१।। मुनिराह -
पुब्विं च इण्डिं च अणागयं च, मणप्पओसो न मे अस्थि कोई ।
जक्खा हु वेआवडिअं करेन्ति, तम्हा हु एए निहया कुमारा ।।३२।। व्याख्या - पूर्वं च पुरा, इदानीञ्चाधुना, अनागते च भविष्यति काले, मनःप्रद्वेषो न मे अस्ति, उपलक्षणत्वादासीद्भविष्यति च, il कोपीत्यल्पोपि । तर्हि कथममी ईदृशा जाताः ? इत्याह - यक्षाः 'हुरिति' यस्माद्वैयावृत्त्यं कुर्वन्ति, तस्मात् हुरवधारणे, ततस्तस्मादेव हेतोरेते lil प्रत्यक्षा निहताः कुमाराः, न तु मम प्रद्वेषोऽत्र हेतुरिति सूत्रार्थः ।। ३२।। ततस्तद्गुणाकृष्टचित्ता उपाध्यायादय इदमाहुः -
अत्थं च धम्मं च विआणमाणा, तुब्भे णवि कुप्पह भूइपण्णा ।
तुब्भं तु पाए सरणं उवेमो, समागया सव्वजणेण अम्हे ।।३३।। व्याख्या - अर्थं च शास्त्राणामभिधेयं, धर्म च यतिधर्म क्षान्त्यादिकं विजानन्तो विशेषेणावगच्छन्तो यूयं नापि नैव कुप्यथ, & 'भूइपण्णत्ति' भूतिर्मङ्गलं १ वृद्धिः २ रक्षा ३ वेति वृद्धाः, ततो भूतिर्मङ्गलं सर्वमङ्गलोत्तमत्वेन, वृद्धिर्वा वृद्धिविशिष्टत्वेन, रक्षा वा
५५८
in E
ller
For Personal Private Use Only