________________
उत्तराध्ययन
सूत्रम्
५५२
के इत्थ खत्ता उवजोइआ वा, अज्झावया वा सहखंडिएहिं ।
एअं तु दंडेण फलेण हंता, कंठंमि घित्तूण खलेज्ज जो णं ।। १८ ।।
व्याख्या - के 'इत्थत्ति' अत्रास्मिन् स्थाने क्षत्राः क्षत्रियजातयः, 'उवजोइ अत्ति' उपज्योतिषोऽग्निपार्श्ववर्त्तिनो महानसिकाः इत्यर्थः, अध्यापकाः पाठकाः, सर्वत्र वा विकल्पे, 'सहेति' युक्ताः खण्डिकैः छात्रः सन्तीति शेषः, ये किमित्याह-एतं मुनिं दण्डेन यष्ट्यादिना, फलेन बिल्वादिना, यद्वा दण्डेन कूर्पराभिघातेन, फलेन मुष्टिप्रहारेणेति वृद्धाः, 'हंतत्ति' हत्वा ताडयित्वा ततश्च कण्ठे गले गृहीत्वा 'खलेज्जत्ति' ||७|| स्खलयेयुर्निष्काशयेयुः, 'जोत्ति' वचनव्यत्ययात् ये 'णमिति' वाक्यालङ्कार इति सूत्रार्थः ।। १८ ।। तदा च तत्र यदभूत्तदाह -
Jain Education International
अज्झायाणं वयणं सुणित्ता, उद्धाइआ तत्थ बहू कुमारा ।
दंडेहिं वेत्तेहिं कसेहिं चेव, समागया तं इसिं तालयंति ।। १९ ।।
व्याख्या – अध्यापकानां पाठकानां वचनं श्रुत्वा उद्धाविता वेगेन धावितास्तत्र बहवः कुमाराश्छात्रादयः, ते हि अहो ! क्रीडनकमागतमिति रभसतो दण्डैर्वशदण्डाद्यैवेंत्रैर्जलवंशरूपैः कशैश्चैव वज्रविकारैः समागता मिलितास्तं ऋषिं मुनिं ताडयन्तीति सूत्रार्थः
।। १९ । । तदा च -
हरिकेशीयनाम
||७|| ॥७॥ द्वादशमध्ययनम्
For Personal & Private Use Only
के क
५५२
www.jninelibrary.org