SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ llell all उत्तराध्ययन सूत्रम् ५४९ lish all liall llell lell Mell llell ॥ जातिश्च ब्राह्मणजातिरूपा, विद्या च चतुर्दशविद्यास्थानात्मिका, ताभ्यां 'उववेअत्ति' उपपेता: अन्विताः जातिविद्योपपेताः, 'ताई तुत्ति' तान्येव ॥ हरिकेशीयनाम ॥6॥ क्षेत्राणि सुपेशलानि शोभनानि, न तु भवादृशानि शूद्रजातीनि विद्याविकलानि । यदुक्तं - "सममश्रोत्रिये दानं, द्विगुणं ब्राह्मणब्रुवे । द्वादश॥ सहस्रगुणमाचार्य, अनन्तं वेदपारगे ।।१।।" इति सूत्रार्थः ।। १३ ।। यक्षः स्माह - Mall मध्ययनम् कोहो अ माणो अ वहो अ जेसिं, मोसं अदत्तं च परिग्गहो अ। ते माहणा जातिविज्जाविहीणा, ताई तु खित्ताइं सुपावगाइं ।। १४ ।। व्याख्या - क्रोधश्च, मानश्च, च शब्दान्मायालोभौ च, वधश्च येषामिति प्रक्रमाद्भवतां ब्राह्मणानां 'मोसंति' मृषा अलीकभाषणं, अदत्तं । 6 अदत्तादानं, चशब्दान्मैथुनं च, परिग्रहश्च गोभूम्यादि स्वीकारोस्तीति सर्वत्र गम्यते, ते इति क्रोधाद्युपेता यूयं जातिविद्याविहीनाः । कथमिति Mel is चेदुच्यते-क्रियाकर्मविभागेन हि चातुर्वर्ण्यव्यवस्था । यदुक्तं - "एकवर्णमिदं सर्वं, पूर्णमासीद्युधिष्ठिर ! । क्रियाकर्मविभागेन, चातुर्वयं Is व्यवस्थितम् ।। १।। ब्राह्मणो ब्रह्मचर्येण, यथा शिल्पेन शिल्पिकः । अन्यथा नाममात्रं स्या-दिन्द्रगोपककीटवत् ।।" न चेदृशी क्रिया ॥ ॥ ब्रह्मचर्यात्मिका कोपाद्युपेतेषु युष्मासु तत्वतः सम्भवत्यतो न तावजातिसम्भवः, तथा विद्यापि सम्यग्ज्ञानात्मिका न सम्भवत्येव भवत्सु, अज्ञानज्ञापकेषु बालक्रीडाप्रायेष्वग्निहोत्रादिषु प्रवृत्तिदर्शनात्, किञ्च सम्यग्ज्ञानस्य फलं विरतिरेव, ज्ञानस्य फलं विरतिरिति वचनात्, न च । in युष्मासु विरतिसम्भवोस्ति, तदभावे च ज्ञानं सदप्यसदेवेति स्थितं । 'ताई तुत्ति' तुरवधारणे भिन्नक्रमश्च ततस्तानि भवद्विदितानि द्विजरूपाणि ॥ ५४९ llell lisa liall llall Gll llol in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy