SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ५४७ विअरिज्जइ खज्जइ भुज्जइ अ, अन्नं पभूअं भवयाणमेअं । जाणा मे जायणजीविणोत्ति, सेसावसेसं लहऊ तवस्सी ।। १० ।। व्याख्या - वितीर्यते दीयते दीनादिभ्यः, खाद्यते खण्डखाद्यादि, भुज्यते च भक्तसूपादि, अन्नमशनं, प्रभूतं भूरि, भवतां युष्माकं सम्बन्धि एतत्प्रत्यक्षं । तथा जानीतावगच्छत 'मेत्ति' मां 'जायणजीविणोत्ति' याचनजीवितं याचनेन जीवनशीलं, सूत्रे च द्वितीयार्थे षष्ठी, इत्यतो हेतोः शेषावशेषमुद्धरितादप्युद्धरितं, अन्तप्रान्तमित्यर्थः, लभता तपस्वी यतिरिति सूत्रार्थः ।। १० ।। इति यक्षेणोक्ते द्विजा एवं स्माहुः - उवक्खड भोअण माहणाणं, अत्तट्ठिअं सिद्धमिहेगपक्खं । न हुं वयं एरिसमन्नपाणं, दाहामु तुब्भं किमिहं ठिओसि ? ।। ११ । । व्याख्या - उपस्कृतं संस्कृतं भोजनं माहनानां ब्राह्मणानां 'अत्तट्ठिअंति' आत्मार्थे भवं आत्मार्थिकं, ब्राह्मणैरपि स्वयमेव भोज्यं न त्वन्यस्मै देयं, किमिति ? यतः सिद्धं निष्पन्नं इह यज्ञे एकः पक्षो ब्राह्मणरूपो यस्य तदेकपक्षं, अयं भावः यदत्रोपस्क्रियते न तद्ब्राह्मणव्यतिरिक्ताय दीयते, विशेषतस्तु शूद्राय । यत उक्तं - "न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविः कृतम् । न चास्योपदिशेद्धर्म, न चास्य व्रतमादिशेत् ।। १ ।। " यतश्चैवमतो न तु नैव वयमीदृशं उक्तरूपं अन्नपानं दास्यामस्तुभ्यं किमिह स्थितोसीति सूत्रार्थः ।। ११ । । यक्षः प्राह - Jain Education International For Personal & Private Use Only ॥७॥ ||७|| || हरिकेशीयनाम द्वादश ||७|| मध्ययनम् లె రై రై STATI ५४७ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy