SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ५४६ LEADS TO जक्खो तहिं तिंदुअरुक्खवासी, अणुकंपओ तस्स महामुणिस्स । पच्छायइत्ता निअयं सरीरं, इमाई वयणाई उदाहरित्था ||८|| व्याख्या - यक्षः 'तहिंति' तस्मिन्नवसरे इति शेषः, तिन्दुकवृक्षवासी, तिन्दुकवनमध्ये हि महांस्तिन्दुकवृक्षस्तत्रासी वसति, तस्यैव च तरोरधस्तात्तचैत्यं, तत्र स यतिस्तिष्ठतीति वृद्धाः । अनुकम्पकोऽनुकूलप्रवृत्तिः, कस्येत्याह - तस्य हरिकेशबलस्य महामुनेः, प्रच्छाद्य आवृत्य निजकं स्वकीयं शरीरं मुनिदेह एवं प्रविश्य स्वयमनुपलक्ष्यः सन्नित्यर्थः, इमानि वक्ष्यमाणानि वचनानि 'उदाहरित्थत्ति' उदाहृतवानिति सूत्रार्थः ।। ८ ।। तान्येवाह - समणो अहं संजओ बंभयारी, विरओ धणपयणपरिग्गहाओ । परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठा इह मागओम्हि ।।९।। व्याख्या - श्रमणः साधुरहं, संयतः सम्यगुपरतः पापव्यापारेभ्य इति शेषः, अत एव ब्रह्मचारी, तथा विरतो निवृत्तो धनपचनपरिग्रहात्, तत्र धनं चतुष्पदादि, पचनमाहारपाकः, परिग्रहो द्रव्यादिमूर्च्छा, अत एव परस्मै परार्थं प्रवृत्तं निष्पन्नं परप्रवृत्तं, तुशब्दोऽवधारणे, ततः परप्रवृत्तस्यैव, न तु मदर्थं निष्पन्नस्य, भिक्षाकाले अन्नस्य अशनस्य 'अट्ठत्ति' अर्थाय इह यज्ञपाटे आगतोस्मीति सूत्रार्थः ।। ९।। अथ ते कदाचिदित्थं ब्रूयुर्यन्नात्र किञ्चित्कस्मैचिद्दीयत इत्याह Jain Education International For Personal & Private Use Only ||७|| हरिकेशीयनाम द्वादशमध्ययनम् శావావావావావాలో ५४६ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy