SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ५४३ లై 0 0 0 8 इरिएसणभासाए, उच्चारेसमिईसु अ । जओ आयाणनिक्खेवे, संजओ सुसमाहिओ ।।२।। हरिकेशीयनाम द्वादश ||७|| मध्ययनम् व्याख्या - ईर्या च एषणा च भाषा च उच्चारश्च ईर्येषणाभाषोचाराः, एकारस्तूभयत्रापि सूत्रेऽलाक्षणिकः । तत्रोच्चारः पुरीषं तत् ॥ परिष्ठापनमपीहोञ्चार उक्तः, उपलक्षणञ्चैतत् प्रश्रवणादिपरिष्ठापनस्य, तद्विषयाः समितयः सम्यक्प्रवर्तनरूपा ईर्येषणाभाषोचारसमितयस्तासु यतो यत्नवान् । प्राच्यचशब्दस्य भित्रक्रमत्वादादाननिक्षेपे च पीठफलकादिग्रहणस्थापने च यतः । किम्भूतः सन्नित्याह - संयतः संयमयुक्तः, ॥ सुसमाहितः सुष्ठु समाधिमानिति सूत्रार्थः । । २ । । मणत्तो वयगुत्तो, कायगुत्तो जिइंदिओ । भिक्खट्टा बंभइज्जमि, जण्णवाडमुवट्ठिओ ।।३।। - व्याख्या – मनोगुप्तमशुभाध्यवसायेभ्यो निवृत्तमस्येति मनोगुप्तः, एवं वाग्गुप्तः, कायगुप्तश्च जितेन्द्रियः पुनरस्योपादानमतिशयख्यापकं, ‘भिक्खट्ठत्ति' भिक्षार्थं ‘बंभइज्जमित्ति' ब्रह्मणां ब्राह्मणानां इज्या यजनं यस्मिन् स ब्रह्मेज्यस्तस्मिन्, 'जण्णवाडंति' यज्ञपाटे उपस्थितः प्राप्त इति सूत्रार्थः ।। ३ ।। तदा च - तं पासिऊणमेज्वंतं, तवेण परिसोसिअं । पंतोवहिउवगरणं, उवहसंति अणारिआ ||४|| व्याख्या Jain Education International - तं बलमुनिं 'पासिऊणंति' दृष्ट्वा 'एज्वंतंति' आयान्तं तपसा षष्ठाष्टमादिना परिशोषितं कृशीकृतं, तथा प्रान्तो aaaaaa For Personal & Private Use Only ||6| ||G|| 2009: ५४३ www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy