SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ५४२ मुहुर्मुहुर्मुने रूपं, दिव्यं रूपञ्च दर्शयन् । यक्षो विडम्बयामास तां कनीमखिलां निशाम् ।। ६२ ।। प्रभाते च मुनिर्न त्वा-मिच्छतीत्यामरं वचः । श्रुत्वा सा विमनास्तात गेहेऽगात्सपरिच्छदा ।। ६३ ।। ताञ्चायान्तीं वीक्ष्य रक्तो, रुद्रदेवपुरोहितः । ज्ञाततत्पूर्ववृत्तान्तः, पृथ्वीकान्तमदोऽवदत् । । ६४ ।। स्वामित्रसौ मुनिवधू- स्त्यक्ता तेनेति साम्प्रतम् । द्विजानां कल्पते देवा र्चकानामिव तद्वलिः ।। ६५ ।। युज्यतेऽथैवमेवेति, ध्यात्वा भूपोपि तां कनीम् । तस्मायेव ददौ गौरी-मिवेशाय हिमाचल: ।। ६६ ।। मुनिवान्तामपि प्राप्य, तां जहर्ष पुरोहितः । क्षुद्रो ह्यसारमप्याप्य, वस्तु श्वेवास्थि मोदते ! ।। ६७ ।। अथ भोगसुखं तया समं, बुभुजे भूरि मुदा पुरोहितः । स च यज्ञवधूं विधाय तां, नृपपुत्रीं मखमन्यदा व्यधात् ।। ६८ ।। इत्युक्तः सम्प्रदायः । सम्प्रदायशेषं तु सूत्रसिद्धमिति सम्प्रति सूत्रमेवानुस्त्रियते । तचेदम् - सोवागकुलसंभूओ, गुणुत्तरधरो मुणी । हरिएसबलो नामं, आसि भिक्खू जिइंदिओ ।। १ ।। व्याख्या – श्वपाककुलं चाण्डालवंशस्तत्र सम्भूत उत्पन्नः श्वपाककुलसम्भूतः, उत्तरान् प्रकृष्टान् गुणान् ज्ञानादीन् धरतीति उत्तरगुणधरः, सूत्रे तु पूर्वापरनिपातः प्राकृतत्वात्, मुनिः साधुः, श्वपाककुलोत्पन्नोपि कश्चित्संवासादिना पूर्वं मेतार्य इवान्यथापि प्रतीतः स्यादत आह-हरिकेशो हरिकेश इति चाण्डाल इति सर्वत्र प्रतीतो बलो नाम बलाभिधः, आसीद्भिक्षुर्जितेन्द्रिय इति सूत्रार्थः ।। १ ।। स कीदृशः किञ्च चकारेत्याह - - Jain Education Intellebal For Personal & Private Use Only LECOCTO ॥ हरिकेशीयनाम द्वादशमध्ययनम् తాతాలలో బైలెల్ ५४२ www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy