________________
उत्तराध्ययन
सूत्रम् ५४०
||5| 16
॥ हरिकेशीयनाम ||
द्वादशall
मध्ययनम्
lifeil
||sil |sil lol
तत्राभूत्तिन्दुकोद्याने, गण्डीतिन्दुकयक्षराट् । तमनुज्ञाप्य तत्ये, तस्थौ स्वस्थमना मुनिः ।।३६।। तञ्च प्रेक्ष्य गुणाम्भोधिं, यक्षस्तत्रान्वरज्यत । परोपि ध्रियते हार, इव चारुगुणो हदि ।।३७।। सेवमानो मुनि तञ्चा-निशं हंस इवाम्बुजम् । कदाचिदपि नान्यत्र, यक्षराजो जगाम सः ।।३८।। तत्रायातोन्यदा यक्षः, कश्चिदन्यवनस्थितः । नाधुना दृश्यसे किं त्व-मिति पप्रच्छ तिन्दुकम् ।।३९।। महात्मानममुं साधु, सेवे मित्राहमन्वहम् । इति सम्प्रति तेऽभ्यर्ण, नागच्छामीति सोप्यवक् ।। ४०।। सोथ तञ्चरितं वीक्ष्य, सम्बुद्धस्तिन्दुकं जगौ । कृतार्थस्त्वं यदुद्याने, वसत्येष महामुनिः ।। ४१।। ममोद्यानेपि यतयः, सन्ति भूयांस ईदृशाः । तदेहि तत्र गच्छावो, भजावस्तानपि क्षणम् ।। ४२।। तिन्दुकोथ ययौ तेन, यक्षेण सह तद्वनम् । विकथानिरतांस्तांश्च, निरीक्ष्येवमभाषत ।। ४३।। स्त्रीभक्तराजदेशानां, जायन्त इह सङ्कथाः । रम्यं महर्षिणा तेन, यामस्तिन्दुकमेव तत् ।। ४४।। सुकरं मुण्डमोलित्वं, सुकरं वेषधारणम् । बाह्या क्रियापि सुकरा, समाधानं तु दुष्करम् ! ।। ४५।। इत्युक्त्वा स प्रतिगत-स्तत्रैवारज्यताधिकम् । आम्रमिष्टतरं निम्बे, ह्यनुभूते भवेद्धशम् ।। ४६।। अहो ! धर्मस्य माहात्म्यं, यदाराध्योपि भूस्पृशाम् । यक्षः सिषेवे तं साधु-मपि श्वपचवंशजम् ! ।। ४७।। राज्ञ: कौशलिकाख्यस्य, सुता भद्राभिधाऽन्यदा । ययो पूजयितुं यक्षं, तचैत्ये सपरिच्छदा ।। ४८।।
llel
Vioall
|locha |loll
Isil
llol iislil Isil Deli
llel llroll llroll
foll losil
oll
lifall Ifoll
lIsll
oll
in Education
For Personal
Use Only