SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् incil 16 १६ प्रथममध्ययनम् III निसंते सिआ ऽमुहरी, बुद्धाणं अंतिए सया । अट्ठजुत्ताणि सिक्खिज्जा, निरट्ठाणि उ वजए ।।८।। विनयनाम व्याख्या --निशान्तो नितरामुपशान्तः, अन्तः क्रोधत्यागाद्वहिश्च शान्ताकारत्वात, स्यात् भवेत् अमुखरः, तथा बद्धानां आचार्यादीनां अन्तिके Mell समीपे सदा सर्वकालं अर्थयुक्तानि हेयोपादेयार्थवाचकान्यागमवाक्यानि शिक्षेत अभ्यसेत्, निरर्थकानि तद्विपरीतानि तु पुनर्वात्स्यायनादीनि वर्जयेत् ॥ MS परिहरेदिति सूत्रार्थः ।।८।। कथं पुनरर्थयुक्तानि शिक्षेतेत्याह - oll अणुसासिओ न कुप्पिज्जा, खंतिं सेविज पंडिए । खुड्डेहिं सह संसग्गिं, हासं कीडं च वजए ।।९।। व्याख्या - अनुशिष्टः कदाचित् परुषोक्तयापि, शिक्षितो न कुष्येत् न कोपं कुर्यात् । तर्हि किं कुर्यादित्याह-क्षान्तिं का Mel परुषभाषणादिसहनात्मिकां सेवेत, पण्डितो बुद्धिमान, तथा 'खुड्डेहिति' क्षुद्रेर्बालैः शीलहीनः पार्श्वस्थादिभिर्वा सह समं 'संसग्गिंति' संसर्ग ! in परिचयं, हासं हसनं, क्रीडां च अन्त्याक्षरिकाप्रहेलिकादानादिकां वर्जयेत्, लोकागमविरुद्धत्वाद्गुरुकर्मबन्धहेतुत्वाचैषामिति सूत्रार्थः ।।९।। || पुनरन्यथा विनयमेवाह - मा य चण्डालिअं कासी, बहुअंमा य आलवे । कालेण य अहिज्जित्ता, तओ झाएज एगगो ।।१०।। व्याख्या -- मा निषेधे, चः समुच्चये, चण्डः क्रोधस्तद्वशादलीकमनृतभाषणं माकार्षीर्माविधाः । लोभालीकाद्युपलक्षणं चैतत् । तथा बहु एव । 6 बहुकं अपरिमितं आलजालरूपं स्त्रीकथादिकं मा च आलपेद्भाषेत, बहुभाषणात्स्वाध्यायादिकार्यहानिवातक्षोभादिसम्भवात् । किं तर्हि । १६ 16 sil Poll llell loll IIsl Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy