________________
ller
उत्तराध्ययन
सूत्रम्
16ll llll
१५
lol
isill
Iroll
llol
ilsil
oll
कणकुंडगं चइत्ताणं, विटुं भुंजइ सूअरे । एवं सीलं चइत्ताणं, दुस्सीले रमई मिए ।।५।।
विनयनाम
प्रथमव्याख्या -- कणास्तन्दुलास्तेषां तन्मिश्रो वा कुण्डकः कुक्कस: कणकुण्डकस्तं त्यक्त्वा विष्टां पुरीषं भुङ्क्ते, शूकरो गर्त्ताशूकरो यथेति
मध्ययनम् M गम्यते, एवमविनीतः शीलं प्रस्तावाच्छोभनमाचारं त्यक्त्वा दुष्टं शीलं दुश्शीलमनाचाररूपं तत्र रमते धृतिमाधत्ते, मृग इव मृगोऽपायानभिज्ञत्वात्, ॥ यथा हि मृगो गीताक्षिप्तो मरणापायमपश्यन् व्याधमनुसरति, तथाऽयमपि प्रेत्यदुर्गतिपातमपश्यनिर्विवेको दुःशीले रमते, इति सूत्रार्थः ।।५।।
उक्तमुपसंहत्य कृत्यमुपदिशति - Illl सुणिआभावं साणस्स, सूअरस्स नरस्स य । विणए ठविज अप्पाणं, इच्छंतो हिअमप्पणो ।।६।।
||७|| व्याख्या --- श्रुत्वा आकर्ण्य अभावं अशोभनभावं सर्वतो निष्काशनरूपं साणस्सत्ति' प्राकृत्वात् शुन्याः शूकरस्य चोपमानस्य नरस्य चोपमेयस्य । विनये स्थापयेदात्मानमात्मनैवेति शेषः, इच्छन् हितमैहिकं पारत्रिकं च आत्मनः, विनयादेव हितावाप्तेर्यदुक्तम् - "विणया नाणं नाणाओ, दंसणं ॥ दसणाओ चरणं च । चरणाहिंतो मोक्खो, मोक्खे सुक्खं निराबाहं ।।१।। इति सूत्रार्थः ।।६।। यतश्चैवं ततः किमित्याह -
तम्हा विणयमेसिज्जा, सीलं पडिलभे जओ । बुद्धपुत्तनिआगठ्ठी, न निक्कसिजइ कण्हुइ ।। ७।। ___व्याख्या - तस्माद्विनयमेषयेत्, धातूनामनेकार्थत्वात्, कुर्यात्, किं पुनर्विनयस्य फलं ? यदेवमुपदिश्यते, इत्याह शीलं प्रतिलभेत प्राप्नुयात्, कि Mil यतो विनयात्, अनेन विनयस्य शीलावाप्तिः फलमुक्तं, अथ तस्य किं फलमित्याह - बुद्धानामाचार्यादीनां पुत्र इव पुत्रो बुद्धपुत्रः साधुः, निश्चितं कि M यजनं नियागः सम्पूर्णभावस्तवरूप: सर्वसंवरस्तत्फलभूतो मोक्षश्च, कारणे कार्योपचारात्तदर्थी सन्न निष्काश्यते 'कण्हुइत्ति' कुतश्चिद्गच्छादेः, किन्तु ॥ MSI विनीतत्त्वेन सर्वत्र मुख्य एव क्रियते इति सूत्रार्थः ।।७।। कथं पुनर्विनयो विधेय इत्याशयेनाह -
ill Illl Islil
lllll ||Gll
Tirail
11
licell
Gll lill
Gll
JainEducation
For Personal Private Use Only