________________
Wall Mall
Isil
||
Iroll
उत्तराध्ययन
सूत्रम् १४
||७||
MS
मध्ययनम
||
Mol
||७
विधायाराधनां सम्यक्, प्रपाल्यानशनं च तत् । तत्रस्थ: प्राप्य पञ्चत्वं, चेटकस्त्रिदिवं ययौ ।।२०।।
isi विनयनाप इतश्च सुज्येष्ठासूनु-दौहित्रश्चेटकप्रभोः । वैशाल्यामाययौ दैवा-त्तदा सत्यकिखेचरः ।।२१।।
ion प्रथममातामहप्रजां सर्वां, लुण्यमानां स रक्षितुम् । निनाय नीलवत्यद्रौ, द्रुतमुत्पाट्य विद्यया ।। २२ ।। कोपाविष्टः कूणिकोऽथ, तां पुरीं युक्तरासभैः । खेटयित्वा हलैस्तीर्ण-प्रतिज्ञः स्वपुरीं ययौ ।। २३।। कूलवालकनामा तु, मृत्वागानरकं कुधीः । उद्धृतस्तु ततोऽनन्ते, संसारे पर्यटिष्यति ।। २४ ।।
कूलवालकमुनेरिव दुःखा-वाप्तिरेवमविनीतमुनेः स्यात् । धृष्टतां तदपहाय सुशिष्यैः, सद्गुरोविनय एव विधेयः ।। २५।। SI इतिकूलवालककथा, इति सूत्रार्थः ।। ३।। अथ दृष्टान्तपूर्वकमविनीतस्य दोषमाह -
जहा सुणी पूइकण्णी , निक्कसिजइ सव्वसो । एवं दुस्सील पडिणीए, मुहरी निक्कसिजइ ।। ४।। _व्याख्या -- यथा शुनी, पूती परिपाकात् कुथितगन्धौ, उपलक्षणत्वात् कृमिकुलाकुलौ च कर्णो यस्याः सा पूतिकर्णी, निष्काश्यते बहिः l कर्ष्णते, 'सव्वसोत्ति' सर्वेभ्यो गृहागणादिभ्यो "हत हत" इत्यादिवाक्यैर्लेष्ट्वादिभिश्च, अत्र च शुनीति स्त्रीनिर्देशोऽतीवकुत्सासूचकः, 'पूतिकर्णीति' ial का विशेषणं तु सर्वाङ्गकुत्सासूचकम्, उपनयमाह-एवमनेन प्रकारेण दुःशीलो दुष्टाचारः, प्रत्यनीकः प्राग्वत्, मुखरो बहुविधासम्बद्धभाषी, निष्काश्यते ॥ सर्वत: कुलगण-सङ्घादेर्बहिः क्रियते, इति सूत्रार्थः ।। ४ ।। ननु कुतोऽयं ज्ञात्वाप्यनर्थहेतो दोश्शील्ये रमते ? पापोपहतमतित्वात्तत्रैवास्य रतिः | ॥ स्यादेतदेव दृष्टान्तेन दर्शयति -
161
||el
||
||Gll lol
gel
Isl ||Gll
Mol
Man
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org