SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ Isil isl उत्तराध्ययन सूत्रम् ५३७ ooooo ||sil lIsll ।।अथ हरिकेशीयनाम द्वादशमध्ययनम् ।। is हरिकेशीयनाम ।। अर्हम्।। उक्तमेकादशमध्ययनमधुना हरिकेशबलमुनिवक्तव्यतानिबद्धं हरिकेशीयाख्यं द्वादशमारभ्यते । अस्य चायमभिसम्बन्धः, ॐ द्वादश मध्ययनम् इहानन्तराध्ययने बहुश्रुतपूजोक्ता, इह तु बहुश्रुतेनापि तपसि यतनीयमिति ख्यापनार्थ तप:समृद्धिर्वर्ण्यते, इत्यनेन सम्बन्धेनायात-स्यास्याध्ययनस्य प्रस्तावनार्थं हरिकेशबलचरितं तावदुच्यते । तथा हि - Mall मथुरायां महापुर्या, शङ्खनामा महीधवः । भुक्त्वा राज्यं विरक्तात्मा, परिव्रज्यामुपाददे ।।१।। क्रमाद्गीतार्थतां प्राप्तो, विहरन् वसुधातले । सोगाद् व्रजपुरं भिक्षा-निमित्तं तत्र चाविशत् ।।२।। Mell एका रथ्या हुतवह-रथाह्वा तत्र चाभवत् । सा हि ग्रीष्मार्कसन्तप्ता, तप्तायस्पात्रतां दधौ ।।३।। ताञ्चातिगन्तुं पादाभ्यां, मुर्मुरोपमवालुकाम् । नाभूत्कोपि प्रभुर्वज्र-वालुकामिव निम्नगाम् ।। ४ ।। यश्चाज्ञानाजनस्तस्यां, रथ्यायां प्रविशेत्तदा । स द्राक् म्रियेत चनको, भृज्यमान इवोच्छलन् ।।५।। ils ताञ्च प्राप्तो भ्रमन् साधुर-सञ्चारां समीक्ष्य सः । पप्रच्छासनसौधस्थं सोमदेवपुरोधसम् ।।६।। llel मार्गेणानेन गच्छामि, न वेति वद सन्मते ! । न ह्यज्ञातस्वरूपेणा-ध्वना गच्छन्ति धीधनाः ।।७।। दन्दह्यमानं मार्गेऽस्मिन्, विलुठन्तमितस्ततः । पश्याम्येनमिति द्विष्टः, सोप्यूचे गम्यतामिति ।।८।। ततस्तेनेव मार्गेण, गन्तुं प्रववृते व्रती । तन्महिम्ना स मार्गोऽभू-त्सलिलादपि शीतलः ।।९।। ५३७ sil Nell ||sil ler Isil Iel Jel llsil lisil Jel JainEducation inde-el For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy