________________
उत्तराध्ययनसूत्रम्
५३४
TCSCOOTOS
जहा सा नईण पवरा, सलिला सागरंगमा । सीआ नीलवंतप्पवहा, एवं भवइ बहुस्सुए ।। २८ ।।
व्याख्या - यथा सा नदीनां प्रवरा सलिला नदी सागरं समुद्रं गच्छतीति सागरङ्गमा समुद्रपातिनी, न तु क्षुद्रनदीवदन्तरा विशीर्यते इत्यर्थः । शीता नाम्नी नीलवान्मेरोरुत्तरदिशि वर्षधरस्ततः प्रवहतीति नीलवत्प्रवहा, एवं भवति बहुश्रुतः । सोपि हि सरित्समानामन्यमुनीनां वरेण्यो निर्मलजलकल्पश्रुतज्ञानान्वितः सागरदेश्यां मुक्तिमेव गच्छति, तदर्हानुष्ठान एव तस्य प्रवृत्तेः । न हि ॥६॥ तस्य विवेकिनो देवत्वादिवाञ्छा, तथा च कथमस्यान्तरावस्थानं स्यात् ? तस्य च महाभागस्य नीलवत्कल्पादुच्छ्रितोच्छ्रितकुलादेव |||| प्रसूतिरिति सूत्रार्थः ।। २८ ।।
जहा से नगाण पवरे, सुमहं मंदरे गिरी । नाणोसहिपज्जलिए, एवं भवइ बहुस्सुए ।। २९ ।।
व्याख्या - यथा स नगानां प्रवरः सुमहानत्यन्तं गुरुर्मन्दरो गिरिर्मेरुपर्वतः नानौषधिभिरनेकसमहिमवनस्पतिभिः प्रकर्षेण ज्वलितो दीप्तो नानौषधिप्रज्वलितः, औषधयो ह्यतिशायिन्यो दीपिका इव प्रज्वलन्त्य एव स्युस्ततो गिरिरपि प्रज्वलन्निव स्यात् एवं भवति बहुश्रुतः । सोपि श्रुतमहिम्नात्यन्तं स्थिरोऽपरशैलकल्पान्यसाध्वपेक्षया प्रवरोऽन्धकारेऽपि प्रकाशनिदानामर्षौषध्यादिलब्धिसहितश्च स्यादिति सूत्रार्थः ।। २९ ।। किं बहुना ? -
Jain Education International
बहुश्रुतपूजानाम
॥ एकादशमध्ययनम्
For Personal & Private Use Only
॥६॥
॥६॥
11.11
५३४
www.jainelibrary.org