________________
॥61
उत्तराध्ययन
सूत्रम् ५३३
Mel llel foll
Is/
जहा से सामाइआणं, कोट्ठागारे सुरक्खिए । नाणाधनपडिपुण्णे, एवं भवइ बहुस्सुए ।।२६।।
Is बहुश्रुतपूजानाम
IN एकादशव्याख्या - यथा स 'सामाइआणंति' समाज समूहं समवयन्तीति सामाजिकाः समूहवृत्तयो लोकास्तेषां कोष्ठागारो धान्याश्रयः सुष्टु का
Is मध्ययनम् ॥ प्राहरिकपुरुषादिव्यापारद्वारेण रक्षितश्चौरमूषकादिभ्य इति सुरक्षितः, नाना अनेकप्रकाराणि धान्यानि शाल्यादीनि तैः प्रतिपूर्णो भृतो । 6. नानाधान्यप्रतिपूर्णः, एवं भवति बहुश्रुतः । सोपि सामाजिकानामिव गच्छवासिनामुपयोगिभिर्नानाधान्योपमैरङ्गोपाङ्ग-प्रकीणकादिभेदैः I श्रुतज्ञानविशेषः प्रतिपूर्णः प्रवचनाधारतया सुरक्षितश्च परवादिरोगादिभ्यो भवति । उक्तं हि – “जेण कुलं आयत्तं, तं पुरिसं आयरेण रक्खेह । ७॥ Hell न हु तुंबंमि विणढे, अरया साहारया हुँति । १। त्ति" सूत्रार्थः ।। २६ ।।।
जहा सा दुमाण पवरा, जंबू नाम सुदंसणा । अणाढिअस्स देवस्स, एवं भवइ बहुस्सुए ।। २७।।
व्याख्या - यथा सा द्रुमाणां प्रवरा जम्बूर्नाम्नाभिधानेन सुदर्शना, न हि यथेयममृतफला देवाद्याश्रयश्च तथान्यः कोपि द्रुमोस्ति, द्रुमत्वं 6 फलव्यवहारश्चास्यास्तत्प्रतिरूपतयैव, वस्तुतस्तु पार्थिवतयोक्तत्वात्, सा च कस्येत्याह-अनादृतस्य अनादृतनाम्नो देवस्य जम्बूद्वीपाधिपतेर्व्यन्तरसुरस्य is आश्रयतया सम्बन्धिनी, एवं भवति बहुश्रुतः । सोपि हि अमृतफलोपमश्रुतान्वितो देवानामपि पूज्यतयाभिगम्यः शेषद्रुमोपमसर्वसाधुषु च प्रवर इति ll M सूत्रार्थः ।। २७।।
Well
llslil
Ish
llol
Isill
Jel
For Personal Prese Only