SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ५३२ ॥६॥ पाणावस्येति वज्रपाणिः, लोकोक्तया च असुराणां पूर्दारणात् पुरन्दरः, शक्रो देवाधिपतिरेवं भवति बहुश्रुतः । सोपि श्रुतज्ञानेन सकलातिशयनिधानेन लोचनसहस्रेणेव जानीते, ईदृशस्य च प्रशस्यलक्षणतया वज्रलक्षणमपि पाणौ सम्भवतीति वज्रपाणिः, पूः शरीरमप्युच्यते तच दुस्तपतपोनुष्ठानेन दारयति कृशीकरोतीति पुरन्दरः, दृढधर्मतया चायं सुरैरपि पूज्यत इति तत्पतिरप्युच्यत इति सूत्रार्थः ।। २३ ।। जहा से तिमिरविद्वसे, उत्तिट्टंते दिवायरे । जलंते इव तेएणं, एवं भवइ बहुस्सुए ।। २४ ।। व्याख्या – यथा स तिमिरविध्वंसस्तमः स्तोमविनाशकः उत्तिष्ठन्नुद्गच्छन् दिवाकरः सूर्यः, स हि ऊर्ध्व नभोभागमाक्रमन् भृशं तेजस्वितां भजते न त्ववतरन्नित्येवं विशिष्यते, ज्वलन्निव ज्वालां मुञ्चन्निव तेजसा महसा, एवं भवति बहुश्रुतः । सोपि हि अज्ञानध्वान्तविध्वंसी संयमस्थानेषु शुद्धशुद्धतमाद्यध्यवसायत उत्सर्पस्तपस्तेजसा ज्वलन्निव भवतीति सूत्रार्थः ।। २४ ।। जहा से उड्डुवइ चंदे, नक्खत्तपरिवारिए । पडिपुण्णे पुण्णमासीए, एवं भवइ बहुस्सुए ।। २५ ।। व्याख्या - यथा सः 'पौर्णमास्याः' पूर्णिमायाः 'उडुपतिः ' नक्षत्राधिपश्चन्द्रो नक्षत्रैरश्विन्यादिभिरुपलक्षणत्वाद् ग्रहतारकाभिश्च परिवारितः, पतिरपि कश्चिदेकाक्येव स्यान्मृगपतिवदिति उडुपतिरित्युक्तेऽपि नक्षत्रपरिवारित इत्युक्तं, 'प्रतिपूर्णः ' सकलकलाकलितः, एवं भवति बहुश्रुतः सोपि नक्षत्रकल्पानां साधूनां पतिस्तत्परिवारितः सकलकलाकलितत्वेन प्रतिपूर्णश्च स्यादिति सूत्रार्थः ।।२५।। Jain Education International For Personal & Private Use Only |||||| GOODS TOT बहुश्रुतपूजानाम एकादश मध्ययनम् ५३२ www.jninelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy