________________
उत्तराध्ययन
सूत्रम्
५७०
जहा से तिक्खसिंगे, जायखंधे विरायई । वसहे जूहाहिवई, एवं भवइ बहुस्सुए ।।१९।।
Ill बहुश्रुतपूजानाम व्याख्या - यथा स तीक्ष्णशृङ्गो निशितविषाण: जातोऽत्यन्तमुपचितः स्कन्धोस्येति जातस्कन्धः, समस्ताङ्गोपाङ्गोपचयोपलक्षणञ्चैतत्, का
एकादश
मध्ययनम् 6. विराजते वृषभो यूथाधिपतिर्गोसमूहस्वामी सन्, एवं भवति बहुश्रुतः । सोपि परपक्षक्षोदकतया तीक्ष्णाभ्यां स्वशास्त्रपरशास्त्ररूपाभ्यां शृङ्गाभ्यां का MR शोभितो गच्छादिगुरुकार्यधुराधरणधुरीणतया च जातस्कन्ध इव जातस्कन्धः । अत एव यूथस्य साध्वादिसमूहस्याधिपतिराचार्यत्वं गतः सन् विराजते । 61 इति सूत्रार्थः ।।१९।।
जहा से तिक्खदाढे, उदग्गे दुप्पहंसए । सीहे मिआण पवरे, एवं भवइ बहुस्सुए ।।२०।।
व्याख्या - यथा स तीक्ष्णदंष्ट्र उदग्र उत्कट अत एव 'दुष्पहंसएत्ति' दुष्प्रधर्षकोऽन्यः पराभवितुमशक्य: सिंहः केसरी मृगाणामारण्यजन्तूनां ॥ MS प्रवरो भवति, एवं भवति बहुश्रुतः । अयमपि हि परपक्षभेदकत्वात्तीक्ष्णदंष्ट्रादेश्यैर्नेगमादिनयैः प्रतिभादिगुणोदग्रतया च दुरभिभव इत्यन्यतीर्थ्यानां । MS मृगतुल्यानां प्रवर एवेति सूत्रार्थः ।।२०।।
जहा से वासुदेवे, संखचक्कगदाधरे । अप्पडिहयबले जोहे, एवं भवइ बहुस्सुए ।।२१।। व्याख्या - यथा स वासुदेवः, शङ्ख पाञ्चजन्यं, चक्रं सुदर्शनं, गदां च कौमोदकी, धरतीति शङ्खचक्रगदाधरः । अप्रतिहतबल:
५३०
IS
Jain Education international
For Personal & Private Use Only