________________
उत्तराध्ययनसूत्रम् ५२९
॥६॥
llell
11e11
iell
॥७॥ दृषच्छकलभृतकुतपनिपातध्वनेर्न सन्त्रस्यति, स्यात् भवेदश्वो जवेन वेगेन प्रवरः प्रधानः, एवमित्युपनये, तत ईदृशो भवति बहुश्रुतः, जैना हि मुनयः बहुश्रुतपूजानाम || परतीर्थिकेभ्यः सकलगुणैः काम्बोजा इवान्याश्वेभ्यो विशिष्यन्ते, अयं त्वाकीर्णकन्थकाश्ववत्तेभ्योप्यधिकः शीलादिगुणैः प्रवर इति सूत्रार्थः ।। १६ ।।
एकादश
||७||
॥७॥ मध्ययनम्
जहाइण्णसमारूढे, सूरे दढपरक्कमे । उभओ नंदिघोसेणं, एवं भवति बहुस्सुए ।। १७ ।।
व्याख्या - यथा आकीर्णं जात्यादिगुणोपेतमश्वं समारूढोध्यासितः आकीर्णसमारूढः शूरश्चारभटो दृढपराक्रमो गाढबल: 'उभओत्ति' उभयतो वामतो दक्षिणतश्च नान्दीघोषेण द्वादशतूर्यनिनादेन उपलक्षितो भाति, एवं भवति बहुश्रुतः । अयं भावः यथैवंविधः शूरो न केनाप्यभिभूयते, न चान्यस्तदाश्रितस्तथायमपि जिनागमाश्वमाश्रितो दृप्तपरवादिदर्शनेपि चात्रस्तस्तज्जयम्प्रति समर्थ उभयतश्च दिनरात्र्योः Hell स्वाध्यायघोषात्मकेन नान्दीघोषेणोपलक्षितो दृप्तैरपि परैर्न पराभूयते, न च तदाश्रितोन्योपीति सूत्रार्थः । । १७ ।।
जहा करेणुपरिकिणे, कुंजरे सट्ठिहायणे । बलवंते अप्पडिहए, एवं भवति बहुस्सुए ।। १८ ।।
व्याख्या - यथा करेणुपरिकीर्णो हस्तिनीभिः परिवृतः कुञ्जरो हस्ती षष्टिहायनः षष्टिवर्षप्रमाणः तस्य ह्येतावत्कालं यावत्प्रतिवर्ष बलोपचयस्ततस्तदपचय इत्येवमुक्तं, अत एव च 'बलवंतेति' बलं वपुः सामर्थ्यमस्यास्तीति बलवान्, अप्रतिहतो न मदोत्कटैरपि परगजैः ॥ पराङ्मुखीक्रियते, एवं भवति बहुश्रुतः, सोपि हि करेणुभिरिव औत्पत्तिक्यादिबुद्धिभिर्विविधविद्याभिश्च वृतः षष्टिहायनतया स्थिरमतिरत एव च ॥ ॥ बलवत्तया अप्रतिहतो भवति, न हि दर्शनोपहन्तृभिः प्रतिहन्तुं शक्यत इति सूत्रार्थः ।। १८ ।।
||6| ||
Jain Education International
For Personal & Private Use Only
५२९
www.jninelibrary.org