SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ५२ on प्रियंवादी । आह च - "करयलमलिअस्सवि दमणयस्स महमहइ पेसलो गंधो । तविअस्सवि सजणमाणुसस्स महुरा समुल्लावा ।।१।।' तथा चास्य बहुश्रुतपूजानाम 6 को गुण: ? इत्याह - स एवंविधगुणवान् शिक्षा शास्त्रार्थग्रहणतदासेवनादिरूपां लब्धुमवाप्तुमर्हति योग्यो भवति, न तु तद्विपरीतोऽविनीतः । यश्च । एकादशis शिक्षा लभते स बहुश्रुतोऽपरस्त्वबहुश्रुत इति भाव इति सूत्रार्थः ।।१४।। एवं सविपक्षं बहुश्रुतं सप्रपञ्चमभिधाय तस्यैव स्तुतिद्वारेण पूर्वप्रतिज्ञातं । ॥ तत्प्रतिपत्तिरूपमाचारमाह - जहा संखंमि पयं निहितं, दुहओवि विरायइ । एवं बहुस्सुए भिक्खू, धम्मो कित्ती तहा सुयं ।।१५।। व्याख्या - यथेति दृष्टान्ते, शङ्ख पयो दुग्धं निहितं न्यस्तं 'दुहओवित्ति' स्वसम्बन्ध्याश्रयसम्बन्धिगुणद्वयलक्षणेन प्रकारद्वयेनापीत्यपिशब्दार्थः, l विराजते शोभते, तत्र हि तन्न कलुषीभवति, न चाम्लतां भजते, नापि च परिश्रवति, एवमनेन प्रकारेण बहुश्रुते 'भिक्खूत्ति' भिक्षी मुनौ, धर्मो in मुनिधर्मः, कीर्तिः श्लाघा, तथा श्रुतमागमो विराजते इति सम्बन्धः । अयं भाव:-यद्यपि धर्मकीर्तिश्रुतानि निरुपलेपतादिगुणेन स्वयं शोभावन्ति Hel तथापि मिथ्यात्वादिकालुष्यापगमात्रैर्मल्यादिगुणेः शङ्खसदृशे बहुश्रुते स्थितान्याश्रयगुणेन विशेषात् शोभन्ते, न च तत्र तानि मालिन्यमन्यथाभावं IS हानिञ्च कदाचित् प्रयान्तीति सूत्रार्थः ।।१५।। पुनर्बहुश्रुतस्तवमेवाह - जहा से कंबोआणं, आइण्णे कंथए सिआ । आसे जवेण पवरे, एवं भवइ बहुस्सुए ।।१६।। || व्याख्या - यथा स इति प्रसिद्धः, काम्बोजानां कम्बोजदेशोद्भवानां अश्वानां मध्ये आकीर्णो गुणैरिति शेषः, कन्थकः प्रधानोऽश्वो यः किल ll ५२८ 6 el sil 161 lain Economia For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy